पृष्ठम्:तपतीसंवरणम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८ तपतीसंवरणे. कम्रैः कैश्चिन्मृदुमणिदलैर्गण्डसंसर्गलाभा- द्धन्यैः स्वेदप्रकरसुभगैश्चित्रितैः पत्रभङ्गैः । सोऽयं शुम्रैः शबलिततनुः षट्पदक्षोभलग्नैः सान्द्रामोदैरलकसुमनोरेणुभिः कर्णपूरः ॥ १३ ॥ शीति तव भ्रम एव । इदं वस्त्वन्तरमेव । किं तर्हि इत्यत्राह - मन्दारपल्लवापी- डकल्पितः कस्याश्चित् कर्णपूर इति श्लोकान्त्येन पदेन समन्वयः । मन्दारपल्लवा- पीडेन मन्दारपल्लवसञ्चयेन । आपीडशब्दस्य कुसुमापीडादिषु सञ्चयवाचित्वं दृष्टम् । मन्दारपल्लवसञ्चयेन कल्पितश्शिखादलकर्णिकाद्यवयवविशेषशिल्प- विन्याससुभगं सम्पादितः, तदपेक्षया आपीडग्रहणम् । अथवा मन्दारपल्लवरूपे- णापीडेन अलङ्कारेण कल्पितः । कस्याश्चिद् वनिताकुलवैजयन्त्याः । भूषणचातुर्येण भूप्यस्य लोकोत्तरत्वं कल्पत इति कस्याश्चिदित्युक्तम् । कर्णपूरः निक्षेप्यः कर्णाल- ङ्कारः । कर्णपूरशब्देन कर्णं पूरयितुं समग्रशोभं कर्तुमस्य वैचित्र्यमिति प्रकाश्यते । कम्रैरित्यादि । कैश्चिन्मृदुमणिदलैः कैश्चिदिति दृष्टिगोचरैरप्यपरिच्छेद्यसौभाग्यैः मृदुमणिरूपैर्दलैः मन्दारपल्लवेन अनेकरत्नरूपेण निर्मितैर्दलैरुपलक्षितः । एतान्यसा- धारणानि कर्णपूरत्वज्ञापकानि चिह्नानि । एतद्विशेष्यम् । गण्डसंसर्गलाभाद्धन्यैः । एतत्सम्बन्धिनो गण्डसंसर्गस्य रसिकैरभिलषणीयस्य लाभात् अतिलोभनीयात् । (स्वेदप्रकरेण) गण्डसंसर्गलब्धेन सुभगैः उज्ज्वलैः । पत्रभङ्गैश्चित्रितैः गण्डस्थले कुङ्कुमकस्तूरिकादिविरचितैः पत्रमङ्गैः संश्लेषसङ्क्रान्तैः चित्रितैः विचित्रतां नीतैः । एतानि दलविशेषणानि | सः तव पिशितभ्रमहेतुः । अयं नयनानन्दकरः । अलकसुमनोरेणुभिः शबलिततनुः सुमनोरेणु (म)त्त्वं दृष्टम् अलकसम्बन्धित्वमुप- पत्त्या कल्प्यते । कुसुमरेणुत्वनिश्चये अन्यदपि चिह्नमस्ति । सान्द्रामोदैः सान्द्रः मांसल आमोदो येषाम् । कथमलकपुमनोरेणूनां कर्णपूरसम्बन्धः तत्रोपपत्तिक- ल्पनं - षट्पदक्षोभलग्नैः रेणूनामामोदेन कुसुमामोदस्तेन षट्पदक्षोभः, तेषामामो- दप्रियत्वात्, तेन तत्क्षोभलग्नत्वं कल्प्यते । शुभ्रैः धवलैः शोभनैर्वा । अत्र कर्ण - पूर सौभाग्यवर्णनेन तत्सम्बन्धिन्या नायिकाया रूपचातुर्यसङ्कल्पनेन रतेः क्रमेण गुणवर्णनानुभावेनोच्छूनता प्रकाश्यते ॥ १३ ॥ - ,