पृष्ठम्:तपतीसंवरणम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे हवेदणं एदं मुहुत्तअं पि मं णाणुमण्णइ विळम्बिदुं । ता तुरिअं तस्स दंसणूसवं अणुभविस्सं । चेटी - (क) भट्टिणि ! पावुसणिरोहमुक्का सरअचंदचंदिआ कहं अणासादिअ कुमुदाअरं चिट्ठई । ता एदु एदु भट्टिणी | २६ (परिक्रामतः) त्कण्ठाविलुलितमपि हृदयमस्फुदितमासीत् । अद्य पुनर्निवर्त्तितनियमाया दुस्सहवेदनमेतन्मुहूर्तमपि मां नानुमन्यते विलम्बितुम् । तत् त्वरितं तस्य दर्शनोत्सवमनुभविष्यामि । (क) भट्टिनि! प्रावृष्णिरोधमुक्ता शरच्चन्द्रचन्द्रिका कथमनासाद्य कुमुदाकरं तिष्ठति । तद् एतु एतु भट्टिनी । ल्येन वैक्लव्यं निरोद्धुं सामर्थ्यम् । आर्यपुत्रविरहेण क्षणमप्यसह्येन या उत्कण्ठा उत्कलिका तया विलुलितमपि व्याकुलमपि । अनेन स्फुटनहेतोः प्राबल्यं गम्यते । अत एवोक्तम् अस्फुटितमिति, न स्वस्थमिति । अनेन विरहस्य कथञ्चित् सो- ढत्वं गम्यते । अत एवोक्तम् इदानीं निवर्त्तितनियमायाः । तेन सह कौतुकस्यापि निवर्त्तनाद् इदानीं दुस्सहवेदनं हृदयं मां मुहूर्त्तमपि विलम्बितुं नानुमन्यते, किं विलम्बसे प्रियतमदर्शनाय त्वरस्वेति प्रेरयति । तद् हृदयेच्छामनुसरामि त्वरितत- रमार्यपुत्रदर्शनोत्सवमनुभविष्यामि । तद् दर्शय मार्गमिति प्रौढनायिकाया उक्तिः ॥ चित्तानुसारिणी चेटी अप्रस्तुताभिधानद्वारा तां प्रोत्साहयति-प्रावृष्णिरो - धेन मुक्तायाश्चन्द्रिकायाः कुमुदाकरसम्बन्धः स्वतः सिद्धः, तस्याः प्रावृष्णिरोधः कादाचित्कः तेन मुक्ता । तत एव शरदि वर्त्तमाना । शरदित्यनेन निरोधमुक्ततया कालविशेषेण शोभातिशयः । तेन कुमुदाकरसम्बन्धे परस्परशोभाजनकत्वम् । एवं नित्यमवियुक्ताया अन्तरा वियोगदुःखमनुभवन्त्या वियोगहेतुनिवृत्त्या अतीव प्रस- नाया महाराजसंश्लेष एव शोभत इति प्रकृतार्थप्रतीतिः ॥ एवं कान्तदर्शनोत्सुकाया गच्छन्त्या विदूषकवचनश्रवणेन तत्र राज्ञः सन्नि- धिमाशङ्कच तयोः सल्लाँपश्रवणार्थं तिरोहिताया अन्यानुरागशङ्कानुगुणं नायकवृ- १. ‘अचंदि' इति क-ख-ग. पाठः २..'इ।.ए.' इति घ. पाठः,