पृष्ठम्:तपतीसंवरणम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे राजो -- (निपुणं निरूप्य सस्मितम् ) सखे ! सत्यं प्रवृत्त एव सम्प्र- हारः। कस्याश्चिद् दिव्ययुवतेः - istepon 30 लाक्षाविषदिग्धाभ्यां हृदि मन्येऽहं पदाब्जबाणाभ्याम् | विद्धः स्मरेण शेते मरतकमणिरेष कीर्णकरः ॥ १२ ॥ विदूषकः – (क) केण उण वअस्सो जाणइ दिव्वकण्णाए पद- विण्णासो ण माणुसीए त्ति । 20 राजा - पश्यतु भवान् अम्बरावतरणसमयसङ्क्रान्तं पिण्डी- (क) केन पुनर्वयस्यो जानाति दिव्यकन्यायाः पदविन्यासो न मानुष्या इति । पदतलाङ्किते मरतकमणौ कामुकत्वमारोप्य भङ्ग्या तङ्क्रममनूद्य सस्मितं क- - थयति — सत्यमित्यादि । त्वदुक्तं सत्यम् । सम्प्रहारः प्रवृत्त एव । नात्रा- वयोर्विमतिः । तत्र प्रकारभेद एवास्ति । एष मरतकमणिः स्मरेण कस्या- श्चिद् दिव्ययुवतेः पदाब्जबाणाभ्यां हृदि विद्धः शेते इत्यहं मन्ये । एषः कान्त्यतिशयेन नयनमनोहरः । कस्याश्चिदनिश्चितस्वरूपायाः अनिर्देश्यरूपायाश्च । पदाब्जाभ्यामेव बाणाभ्याम् । स्मरेण त्रैलोक्यविजयसाधनत्वेन तरुणीं निश्चि न्वानेन तदग्रेसरेण । तत्पदाब्जे बाणत्वेनाङ्गीकृत्य हृन्मर्माणि निर्दयं विद्धः गतप्राण इव शेते । कार्णकर इति वैवश्यद्योतकम् । हृदि शरविद्धानां करौ प्रसार्योत्तान- शयनं दृश्यते । अयमपि तथा । करशब्दः लिष्टः प्रसारितरश्मिरूपबाहुः । अत्र हृदि वेधः शरतैक्ष्ण्यं च वैवश्यहेतुः । तदाह — लाक्षाविषदिग्धाभ्यामिति। ला- क्षैव विषं लाक्षाविषं, लाक्षाया विषत्वारोपः कामुकेनातिदुःसहतया । एवं सम्प्र- हारः प्रवृत्त इत्यहं मन्ये । एवमचेतनस्यापि विकारजननसामर्थ्ये रसिकानां यूना- मवयवमात्रेणापि सम्बन्धेन पारवश्यं कर्त्तु मदनसहायायास्तरुण्याः सामर्थ्यं किं कथ्यताम् । एवं गुणवर्णनेन सस्नेहदृष्टिपातेन चानुभावेन सङ्कल्पकल्पिततरुणीरूपे- ऽस्य हृदि रतिभावोऽङ्कुरितो व्यज्यते । एष एव क्रमोत्कर्षं यास्यति ॥ १२ ॥ पश्यतु भवानित्यादि । पिण्डीतरुः अशोकः ॥ १. ‘जा - (उपसृत्य निपुर्ण निरूप्य) इति ख-ग. पाठः, 'जा (उपसृत्य सस्मितम् ) ' इति क. पाठे:, 'जा- (निपुणं निरूप्य ) ' इति घ. पाठ:: २. 'शी' इति ख. पाठ: ३. 'ण्णआ- 'ए' इति ग. पाठः.