पृष्ठम्:तपतीसंवरणम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमाक (उभौ परिक्रामतः) - विदूषकः – (सभयं परावृत्य) (क) भो पळाअह्न । अग्गदो महन्तो संपहारो वट्टइ। राजा - कोऽयमकाण्डे सम्भ्रमः । - विदूषकः – (ख) एआरिसं पाणसंसअं मोत्तूण को अण्णो संभ- मस्स अवआसो होइ । ★ राजा - कस्ते प्राणसंशयस्य हेतुः । 10 • विदूषकः -- (अङ्गुल्या निर्दिश्य) (ग) एदस्सिं मरगअसिळादळे ळो- हिदपूरो दीसइ । (क) भो पलायावहे । अग्रतो महान् सम्प्रहारो वर्तते । (ख) एतादृशं प्राणसंशयं मुक्ता कोऽन्यः सम्भ्रमस्यावकाशो भवति । (ग) एतस्मिन् मरकतशिलातले लोहितपूरो दृश्यते । यावकरसा इव सम्भावनीयाः । अतो निदर्शना उत्प्रेक्षायां पर्यवस्यति । अत्र लक्ष्मीसञ्चरणस्योत्प्रेक्षितुं योग्यत्वादतिसुभगत्वं समर्थितम् ॥ ११ ॥ अथ प्रबन्धव्याप्तस्याभिलाषशृङ्गारस्य धर्मशेषत्वं प्रकाशयितुम् ऋणनिवृ- तिरूपस्य धर्मस्य पुत्रोत्पत्त्या साध्यत्वं प्रतिपाद्य तदुपायान्वेषणद्वारा प्रवृत्तौ प्राप्ता- वसरस्य प्रस्तावाय रत्नालम्बनस्य नायिकारूपस्य द्वितीयाङ्के वर्णयिष्यमाणस्यैक- दशालम्बनेनौत्सुक्यपूर्व रतौ क्रमेण प्रवेशं प्रतिपादयितुं पदवतंसकवृत्तान्तमुद्भाव- यति । तच्छेषतया विदूषकस्य भ्रमप्रकारः प्रतिपाद्यते--- भो ! पळाअह्म इत्या- दितः । अस्मिन् मरतकशिलातले सम्प्रहारद्योतको लोहितपूरो दृश्यते ॥ इति तस्य भ्रमभणितिमाकर्ण्य तत्स्वरूपज्ञानाय सावधानं निरीक्षमा- णस्तदानीमेव शिलातले स्थित्वोत्थिताया दिव्यकन्यकाया मणिशिलासंक्रान्तं • प्रत्यक्षलाक्षारसरञ्जितं पदप्रतिबिम्बं लाक्षारसरञ्जितत्वेन परिस्फुटसौभाग्यं प्रका- शमानमालोक्य तच्चातुर्येण स्थालीपुलाकन्यायेन लोकोत्तरं रूपचातुर्यं सङ्क- ल्प्य दिव्यकन्यकासम्बन्धित्वमुपपत्त्या निश्चित्य तस्याः काम्यत्वमनुसन्धाय 50 $ १. ‘कः-भो’ इति ख-घ. पाठः, 'क:- (सभयं) भो, इति ग, पाठः. २. 'शन्' इति क. 'पाठं: ३. 'दअ' इति ख-घ. पाठः.