पृष्ठम्:तपतीसंवरणम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ तपतीसंवरणे राजो - (प्रवेशं नाटयन् विलोक्य) सखे ! अतिसुभगोऽयमुद्याना- SE भोगः । इह हि - आरामलक्ष्मीचरणच्युतानां बिभ्रत्यमी विभ्रमयावकानाम् । शोभां शुकालीढफलावलीनां बीजोत्करा दाडिमवल्लरीणाम् ॥ ११ ॥ प्रेरयन् उद्यानं वर्णयति–सखे! इत्यादि । अतिसुभगः नित्याभ्यस्तस्य पूर्वमेवं न सौ- भाग्यं दृष्टम् । उद्यानस्याभोगः परिपूर्णता समग्रपरिकरत्वम् । तत् समर्थयति- इह हीत्यादि । इह शुकालीढफलावलीनां दाडिमवल्लरीणां बीजोत्कराः आरामलक्ष्मी- चरणच्युतानां विभ्रमयावकानां शोभां बिभ्रति इति समस्तः समन्वयः । अमी इति निरन्तरं दृश्यमानाः दाडिमवल्लरीणां बीजोत्कराः । शुकालीढफलावलीनामित्यनेन बीजोत्कराणां फलोद्भवत्वं सिद्धम् इति तथोक्तम् । शुकैः आलीढाः दष्टाः फला- वल्यो यासाम् । शुक्रग्रहणं तेषां दाडिमफलप्रियत्वाद् उद्यानवर्द्धितत्वाच्च । फला- नामालीढत्वं बीजग्रहणाय भेदः । निरन्तरस्थितानां दाडिमवल्लरीणां शुकतुण्ड- खण्डितेभ्यः प्राचुर्येण सङ्घीभूय तत्र तत्र व्याकीर्णा बीजोत्कराः अनुक्तसिद्धारुण- वर्णाः एवं सुभगसम्भावनायोग्या भवन्ति । कथम्, आरामलक्ष्मीचरणच्युतानां रम्यप्रदेशसंरक्षणार्थं तत्र तत्र लक्ष्मीकलाः सञ्चरन्ति, अतः आरामसन्निहितायाः स्थलसौभाग्येनं सविलासं सर्वत्र चरन्त्याः चरणकमलच्युतानाम् । विभ्रमयावकानां विलासोचितानां लाक्षारसानाम् । शोभां बिभ्रति तत्समानशोभा दृश्यन्त इत्यौ- पम्यगर्भम् । अत्रारामलक्ष्म्याः अदृश्यरूपायाः एवं प्रत्यक्षसञ्चरणे चरणाद् याव- करसपतने च सिद्धे तत्सादृश्यं घटते । सादृश्यगर्भितत्वेन निदर्शना । अत-- स्तदभावाद् उत्प्रेक्षायां पर्यवसानम् । अत एवम्भूता बीजोत्कराः एवमुत्प्रेक्षितुं शक्या: । अलक्तकरञ्जितपदायाः स्वैरं सञ्चरन्त्या आरामलक्ष्म्याः पदतलच्युता , १. 'जा-विलोक्य स' इति ख-ग. पाठः, 'जा-अति' इति क. पाठः २. 'णाम् ॥ वि' इति ख-घ, पाठ: