पृष्ठम्:तपतीसंवरणम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । २१ विदूषकः --- (क) अदिट्ठपुरुवाए देवीए पदविं अण्णेसन्तस्स किं ण होइ सुणिमित्तं । राजा - किमदृष्टपूर्वेति । - विदूषकः -- (ख) एत्तिअं काळं णिअमन्तरिदेदंसण त्ति भए भ णिदं । (अग्रतो बिलोक्य) पेक्खदु पेक्खदु भवं, एसा भअ- वई भाईरही दीसइ । राजा - (साञ्जलिबन्धम् ) www भगवति! पुनतीभ्यस्तावकीभ्यास्त्रलोकीं प्रणतिमुपगतोऽहं स्वर्गनिःश्रेणिकाभ्यः । मदकल कलहंस श्रेणिपारिप्लवाभ्यः शशिकरविशदाभ्यो वीचिकामालिकाभ्यः ॥१०॥ विदूषकः --- (पुरतो निर्दिश्यं) (ग) एसो गुहघरपरिसरारामो । पविसदु भवं | (क) अदृष्टपूर्वीया देव्याः पदवीमन्विष्यतः किं न भवति सुनिमित्तम् । (ख) एतावन्तं कालं नियमान्तरितदर्शनेति मया भणितम् । पश्यतु पश्यतु भवान्, एषा भगवती भागीरथ दृश्यते । (ग) एष गुहगृहपरिसरारामः । प्रविशतु भवान् । एतदुक्तिमनुसृत्य भाविनमर्थं सूचयति कविः अदृष्टपूर्वेत्यादिना । तत्र अदृष्टपूर्वाया इत्यत्रास्फुटत्वगोपनाय प्रश्नपरिहारौ कविना प्रकाशितौ ॥ भगवतीत्यादि । स्वर्गनिःश्रेणिकाभ्यः स्वर्गारोहणसाधनत्वेन निःश्रेणिकात्वा- रोपः । मदेन मधुरनादैः राजहंससञ्चयैः अर्थात् तेषां पक्षपवनैः पारिप्लवाभ्यश्चञ्च- लाभ्यः “पारिप्लवन्त्वधीरं चलाचलं चञ्चलं च कथयन्ति" इति हलायुधः ॥ १० ॥ अथ सन्तापकुण्ठितस्य मनसः सूर्यवचनतात्पर्यनिरूपणेन सुनिमित्तोदयेन जाह्नवीनमनेनोद्यानावलोकनेन च क्रमेण विकासमवलम्बमानः रसिकवीथ्यां (तत्) १. 'कथम' इति ख. पाठः, २. 'रिअदं' इति ख-ग. पाठः. ३. 'दुए' इति घ. पाठः, ४. 'वदी भा' इति ख-ग. पाठः, ५. 'शन् ए' इति क. पाठः, ६. 'गिहप' इति क-ख-ग. पाठः, ७. 'वं । (उभौ उद्यानप्रवेशं रूपयतः) । रा' इति क-ख-ग. पाठः.