पृष्ठम्:तपतीसंवरणम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे २० विदूषकः – (क) एदु एदु भव॑ । (उभौ परिक्रामतः) राजा --- (निमित्तं सूचयन्) सखे ! वामेतरमिदमधुना स्फुरति मदीयं विलोचनं केन । न सुतसमुद्भवलाभादपरः प्रीतिप्रसङ्गो मे ॥ ९ ॥ मे (क) एत्वेतु भवान् । एवैतद् वाक्यार्थशक्तिपर्यालोचने । अत्रैवं तात्पर्यमुन्नेतुं शक्यम् । तत्रापि न पाक्षि- कत्वमित्येवकारेण द्योतितम् । तत्र दाक्षिण्यनिमित्तं वैषम्यमाह -- न पुनरित्यादि । देवीगुणगणनिगलितां गुणगणैः सौशील्यादिभिः गणशब्देन निगलनस्य गाढत्वेन शिथिलीकरणस्य दुष्करत्वं प्रकाशितम् । अत एवोक्तमन्यतः क्षेप्तुं नालमिति । अन्यतः अन्यस्याम् । चित्तवृत्तिः सङ्कल्पः । तद्विशेषा एव रत्यादयः । अतो देवी- निविष्टरतेश्चित्तस्याक्कृप्यान्यत्र योजने मम न शक्तिरिति दाक्षिण्यं प्रकाशितम् । अत एवाह -- अधुना देवीं द्रक्षाव इति । निवर्त्तितनियमामित्यनेन मध्ये नियमस्य विच्छेदकरणेन तस्या वैमनस्यमपनेतव्यमिति प्रकाशितम् ॥ एवमपेक्षितं देवीदर्शनमुद्दिश्य गच्छन् अभ्युदयद्योतकं सुनिमित्तमनुसन्धाय चित्तसन्तापस्य निर्वापणे पुत्रोद्भवे औत्सुक्यवानाह—सखे ! इति । व्यसनवद- भ्युदयेऽपि त्वमेव मम सब्रह्मचारी | तदिदानीमनुभूयमानादन्यदवस्थान्तरं सुनि- मित्तं सूचयति । तच्छृणु । वामेतरं दक्षिणम् अनुकूलमिति च स्फुरति । इदमिति त्वयापि द्रष्टुं शक्यम् । अधुना सङ्कटकाले । स्फुरति स्फुरणस्य क्षणेन न विश्रा- न्तिः प्रारब्धस्य स्फुरणस्य न परिसमाप्तिः, अनेन फलस्य गौरवं गम्यते । मंदी- यमिति । मम वैषम्यं ज्ञात्वा स्वयं प्रियं निवेदयदिवेति द्योत्यते । स्फुरति स्पन्दते अत एव शोभत इति च ध्वनितम् । केन हेतुनेति शेषः । दक्षिणतया प्रीतिहेतु- बोधकत्वमस्य स्वतः सिद्धमिति निरूप्य औचित्येन विशेषे नियमयति -- न सुतेत्यादि । सुतसमुद्भवलाभात् सुतोत्पत्तिसिद्धेः । सुतोद्भवस्यैवापेक्षितत्वं पश्चात् तद्गुणादेरिति समुद्भवग्रहणं न तु सुतलाभादिति । अपरः अन्यः इतो विशिष्टः । प्रीतिप्रसङ्गः प्रीत्युद्भवहेतुः प्रसजत्यनेनेति व्युत्पत्त्या प्रीतिहेतुता द्योत्यते । सुतो- त्यत्तिं तन्निमित्तं च विनेदानीं मम नान्यदपेक्षितमिति भावः ॥ ९ ॥

  • १. 'एव्वं होदु । राजा — गच्छाग्रतः । उभौ' इति ख. पाठः, २. 'वं | राजा-बाढम् । उ'

इति ग. पाठः. ३. 'यित्वा स' इति घ. पाठ..