पृष्ठम्:तपतीसंवरणम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । १९ मुहादो सुदपुरुवं एव्व । अत्तभवं पुण सुय्यवअणस्स तप्पज्जत्थं अजाणन्तो अदिमेत्तं संतप्पदि । एसो तस्स अभिप्पाओ । इअं देवी अणवच्चा । अण्णं परिणेहि । सा दे तणअं जणइस्सदि त्ति । राजा सखे ! सम्भाव्यत एवैतत् । न पुनरहं देवीगुणगण- निगलितां चित्तवृत्तिमन्यतः क्षेतुमलम् । तदधुना निव- र्त्तितनियमां तत्रभवतीं द्रक्ष्यावः । पुनः सूर्यवचनस्य तात्पर्यार्थमजानन् अतिमात्रं सन्तप्यते । एष तस्याभि- प्रायः 'इयं देव्यनपत्या | अन्यां परिणय । सा ते तनयं जनयिष्यति इति । विरुद्धतया प्रहसनोक्तिः, धर्मशास्त्रादिभ्य एतच्छ्रवणं युक्तं न खलु तार्किकमुखा- दिति । अत्र नायिकान्तरानुरागबीजभूतं सूर्यवचने निलीनं नायकेनातिगम्भीर - त्वकथनेन शङ्कितम् अर्थान्तरम् औत्सुक्यरूपारम्भोत्थापनाय नर्मसचिवमुखेन वि- वृणोति कविः- अत्तभवं पुण इत्यादि । भवत्सन्तापे भवत एवापराधः । सूर्यवच- नतात्पर्ये निरूप्यमाणे इत एव सन्तापशमोपायः सिध्यति । अत्रभवान् पुनरिति सर्वज्ञस्याप्यत्र कुण्ठिता बुद्धिः । अतः सूर्यवचनस्य तात्पर्यार्थो भवता न निरू- पितः । निषेधरूपः स्थूलो वाक्यार्थ एव ज्ञातः न तु तात्पर्यार्थः । स तु वक्तुर- भिप्रायरूपो वाच्याद् भिन्नस्वरूपः । तमर्थं मूर्खोऽहं व्याख्यास्यामि । तव इमां दयितां प्रसवापेतामवेहीत्यत्र अन्यां परिणय सा ते तनयं जनयिष्यति इतीमां प्रसवापेतामित्युक्तम् । अत एव पुत्रो न भविष्यतीति न । तदन्यां परिणयेत्ये- वमभिप्रायं विज्ञाय सन्तापो न कार्यः । तदभिप्रायानुरूपं प्रवर्त्तितव्यम् इत्यौत्सु- क्यमुद्भावयति ॥ तदङ्गीकृत्यौत्सुक्यगर्भमाह -- सखे ! इति । इदमेव सखित्वं यत् समसुख- दुःखतया कार्यसङ्कटेषु तत्त्वप्रकाशनम् । इदानीं ममाप्यर्थः स्फुरति । सम्भाव्यत १. 'हवं उण' इति क. पाठः, २. 'सूरव' इति क ख ग. पाठ:. ३. 'जा--सं' क-ख-घ. ४. 'णनि' इति क-घ. पाठः, ५. 'मां देवीं द्र' इति ख. पाठः ६. 'वः । गच्छामतः वि' इति क.ग. पाठः पाठन