पृष्ठम्:तपतीसंवरणम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतासवरण विदषकः - (क) सोत्थि होदु । मा भैवं सन्दप्पदै । राजा - कथमहमधमर्णो नानुशये । - विदूषकः

- (विहस्य) (ख) अहो तुह अणेअपसण्डिरअणपरिपूरि-

अभण्डआरसहस्सस्स वि रिणसन्दावो त्ति अच्छरिअं । राजा – मूर्ख! नाहं भवदभिमतमृणमधिकृत्य ब्रवीमि । अ- न्यदिदमपत्याभिधानमृणमुद्वहामि पितॄणाम् । विदूषकः - (ग) मए वि एवं अण्णोष्णं विवदंताणं तक्किआणं - (क) स्वस्ति भवतु । मा भवान् सन् म् । (ख) अहो तवानेकप्रशस्तरत्नपरिपूरितभाण्डागारसहस्रस्यापि ॠणसन्ताप इत्या- श्चर्यम् । (ग) मयाप्येतदन्योन्यं विवदमानानां तार्किकाणां मुखात् श्रुतपूर्वमेव । अत्रभवान् त्युक्तम् ॥ ८ ॥ इतीति भारत्युपसंहारः । अनन्तरं भगवानन्तरधत्त च । केवलस्य प्रादुर्भावो न घटते कथनं च, तद् भगवतैवोक्तं, मया न दृष्ट इत्येवेति भगवानन्तरघ- त्तेत्युक्तम् । अनन्तरमित्यनेनैतदर्थमेव प्रादुर्भाव इति ज्ञायते । अहं च प्राभातिक- मङ्गलगीतिभिः प्रतिबोधितोऽस्मीत्यनेन स्वप्नस्य चरमयामदृष्टत्वं प्रकाशितम् ॥ एवं तस्यानिष्टप्राप्तिसूचकं सन्तापगर्भै वचनमाकर्ण्य मङ्गलाशंसनपूर्वमनुन- यति -- स्वस्तीत्यादि । तस्य सन्तापनिषेधमनङ्गकृित्याह -- कथमहमित्यादि । अनुशयः पश्चात्तापः पूर्वमेव ऋणनिवृत्तौ प्रवृत्त्यभावात् ॥ एवमुक्ते तस्य चित्तव्याक्षेपाय हासगर्भा प्रहसनोक्तिः- अहो इत्यादि । पस- ण्डिरअण प्रशस्तरत्न ॥ सन्तापेनैवं प्रहसनमनादृत्य बोधयति- मूर्खेत्यादि । अन्यदिदं, न भवन्नि- रूपितम् । पितॄणां पितृसम्बन्धि पितृविषयमित्यर्थः । अपत्यस्यानुदयस्तत्र-निमित्त- मित्यपत्याभिधानमित्युक्तम् ॥ -- तदनुवदति–मयापीत्यादि । तार्किकाणां मुखात् श्रुतपूर्वमिति शास्त्र- १. 'दु | मा स' इति क-ख. पाठ:. २. 'एव्वं स' इत्ति ग-पाठः ३. 'उ' इति क-गः पाठः, ‘उं' इति ख. पाठः ४, ‘ण्डा' इति क. पाठः ५. 'व' इति ख. पाठः ६. वि' इति घ. पाठः