पृष्ठम्:तपतीसंवरणम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । विदूषकः -(क) तदो तदो । wpadniente राजा. • ततस्तस्माद् भक्तिभारावर्जितमौलिं प्रणमन्तमन्तरेण मामासीदतिगम्भीरा भारती । विदूषकः – (ख) केरिसी । राजा- ." वत्स ! संवरण ! 66 दयितां तव तन्वङ्गीं साल्वराजसुतामिमाम् । अवेहि प्रसवापेतां शरच्चूतलतामिव' ॥ ८ ॥ इति । अनन्तरमन्तरधत्त च भगवान् । अहं च प्राभा- तिकमङ्गलगीतिभिः प्रतिबोधितोऽस्मि । (क) ततस्ततः । (ख) कीदृशी । स्वप्नश्रवणे शेषश्रवणापेक्षया तस्य प्रश्नमनुसृत्य स्वप्नशेषमाह - तत इ- त्यादि । ततः आविर्भावसमनन्तरमेव । तस्माद् बिम्बाद् । भक्तिभारावर्जितमौलिः नम्रशिराः अहं प्रणतः । विशेषणेन प्रणामस्य परिपूर्तिः प्रकाश्यते । तथा प्रण- मन्तं मामन्तरेण मामुद्दिश्य । अतिगम्भीरा अतिनिगूढाभिप्राया भारती आसीत् । तस्मादित्यनेन वक्तृमुखं न दृष्टं बिम्बादुद्भूतेत्येव ज्ञातम् ॥ तज्जिज्ञासया पृच्छति -- कीदृशीति ॥ वत्स ! संवरण ! इत्यादि भारतीप्रकारः । वत्स ! संवरण ! इत्यनेन पुत्र- वद् वात्सल्यातिशयः प्रकाशितः । दयितामिति तन्वङ्गीं साल्वराजसुतामिति सौरूप्याभिजन्मादिभिस्तव दयितात्वमस्यां युक्तमेवेति सम्माननं गम्यते । प्रसवापे- तामवेहीति प्रसवस्यैव निषेधेन पुत्रोत्पत्तिशङ्का दूरतो निरस्ता । शरच्चूतलतामिवेति अत्यन्तासम्भावनाप्रकाशकेन दृष्टान्तेन तादृश्यपास्या गृहस्थितिरिति दृढीकृतम् । वत्सेत्यादिसंबोधनेन तन्वङ्गीमित्यादिना च कारुण्यपात्रत्वमस्माकं प्रकाशितम् । प्रसवापेतामवेहीत्यनेनानिष्टार्थश्चान्ते बोधित इति अनुग्रहो वा निग्रहो वा तत्र फलितः । किमर्थं स्वयं प्रादुर्भूय कथनमिति ज्ञातुमशक्यम् । तत एवातिगम्भीरे- १. 'मौलि' इति ख. पाठ.. २. 'कीरि' इति घ. पाठ: ।