पृष्ठम्:तपतीसंवरणम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे राजा - सखे ! सम्यगुपलक्षितम् । अतीतायां खलु रात्रौ स्वप्ने - सूर्योपस्थानमातन्वतः - आराद् दृष्टं चलदलपुटैदीर्घिकापद्मिनीना- मर्द्धोन्मीलन्मुकुलनयनैः प्रस्फुरद्भृङ्गतारैः । तुच्छीकुर्वत तुहिनकणिकाजालकं मे पुरस्ता- दाविर्भूतं किरणनिकरैरम्बरादर्कबिम्बम् ॥ ७ ॥ ये॑न सन्तापोऽनुमितः । अत्र सन्तापे को हेतुः । परिपूर्णकृत्यस्य तवेदानीं सन्ता- पस्य किं निमित्तमित्यर्थः ॥ - - इति विवक्षितार्थसोपानायमानं तद्वचनमाकर्ण्य नायकः श्लाघापूर्वमाह - सखे! सम्यगुपलक्षितम् इदानीं तव सखित्वमतिहृद्यं जातम् । सम्यगुपलक्षितं सम्यग् यथातत्त्वमनुमितम् । अतः कारणं शृणु - अतीतायां खलु रजन्यां स्वप्ने सूर्योपस्थानमातन्वतो मे पुरस्ताद् अम्बरादर्कबिम्बमाविर्भूतमित्यन्वयः । अतीतायां खलु अतीतायामेव न राज्यन्तरे इत्यवधारणे खलुशब्दः । तेन प्रतीतेरविस्मृतिः प्रकाश्यते । स्वप्ने सूर्योपस्थानादिरूपेण स्वप्नो दृष्ट इत्यर्थः । आतन्वत इति अनु- तिष्ठतः । मे पुरस्ताद् अर्कबिम्बं बिम्बशब्देन तस्यैव दृष्टिगोचरत्वं जातम् । तदानीं तत्प्रादुर्भावकार्यमपि परिस्फुटं दृष्टं दीर्घिकापद्मिनीनाम् उपस्थानपरिगृही- तायां दीर्घिकायां याः पद्मिन्यः कमलोत्पत्तिभूमयः नायिकाः तासाम् । अर्द्धान्मी- लद्भिः विकासारम्भेण अर्द्धविकस्वरैः मुकुलैरेव नयनैः । आरात् समीपे । दृष्टं नयनानामपि प्रेमकृतमर्द्धोन्मीलनमारोपवशात् सिद्धम् । नयनानां दर्शने कर्तृत्व- मारोपितम् । कीदृशैः अर्द्धोान्मीलनवशाच्चलानि विश्लेषभाञ्जि दलान्येव पुटानि येषां । तथा प्रस्फुरन्तः भृङ्गा एव ताराः येषां तैः । आरादित्यनेनारोपितमौत्सुक्यं प्रकाशितम् । निजपरिलालननित्यदीक्षितस्य कान्तस्य सन्निधौ कान्तानामेवं प्रेम- दृष्टिपातो युक्त एव । अत्र नयनानां मुकुलत्वेन दलानां पुटत्वेन भृङ्गाणां तारा- त्वेन च समारोपस्य शाब्दत्वात् पद्मिनीनां नायिकात्वारोपस्यार्थत्वमित्येकदेशविव- र्त्तिरूपकम् । किरणनिकरैः तुहिनकणिकाजालकं तुच्छीकुर्वत् । एवमुदयकालका- र्यकथनेन जाग्रद्दर्शनवत् स्वप्नदर्शनस्य परिस्फुटत्वं प्रकाशितम् । मे पुरस्तादित्यनेन मदपेक्षया प्रादुर्भाव इति ॥ ७ ॥