पृष्ठम्:तपतीसंवरणम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । पवनविजयमार्गा मन्त्रसिद्धिप्रकारा मुनिवरवचनं वा देवतानां प्रसादाः । उपचयिभिरुदर्कस्वादुभिः पुण्यपूरै- रपगतदुरितौघानम्बरे वर्तयन्ति ॥ ६ ॥ विदूषकः-- (क) अळं एदिणा । अणुप्फुळ्ळं दे वदणकमळं सन्दा- वगव्भं पिसुणेई हिअअं । को एत्थ हेदू । १५ (क) अलमेतेन । अनुत्फुल्लं ते वदनकमलं सन्तापगर्भ पिशुनयति हृदयम् । कोऽत्र हेतुः । - केन पुनस्तत् सिद्ध्यतीत्यत्राह- पवनेत्यादि । योगशास्त्रेषु बहुप्रकारमुक्तत्वात् मार्गा इति बहुवचनम् । मन्त्राणां सिद्धिः मन्त्रैः सिद्धिर्वा | मुनिवरवचनं 'तवैतद् भवत्वि'ति मुनिवराणामनुग्रहः । देवतानां प्रसादाः । तत्र न वचनापेक्षा । अधि- कारिसापेक्षमेतेषां स्वातन्त्र्यमित्याह - उपचयिभिरित्यादि । उपचयिभिः पुनः पुन रार्जनेन प्रवृद्धैः । उदर्कस्वादुभिः रसावहैः । पुण्यपूरैः इष्टापूर्त्तादिपुण्यसञ्चयैः । अपगतदुरितौघान् स्वयमेव दूरीभूतदुरितसञ्चयान् । अत्र पुण्यपूराणामुपचयः न केवलं पुण्यमात्रस्येत्यतिप्राचुर्य विवक्षितम् । अत्रैवम्भूतानामधिकारः । अधिकारिणां वर्तन एव पूर्वोक्तानां प्रयोजकत्वम् । ततः परस्परापेक्षायामेव साध्यसिद्धिरित्येता- नम्बरे वर्तयन्तीत्युक्तम् ॥ ६॥ एवं प्रहसनार्थ सत्यवत् कल्पयित्वा किञ्चिदमर्षगर्भ नायकस्याक्षेपवचनमा- कर्ण्य तदानीं मुखवैवर्ण्य चावधाय नर्मसचिव आत्मनोऽनवसरभाषितमाशङ्कय तत्कथनशेषं निवार्य पृच्छति - अलमित्यादि । भवन्मनोवृत्तिमविज्ञाय मया आ- त्माधिकारोचितं यत्किञ्चिद् भाषितं जानतापि भवता मां प्रत्यमर्षेण तत् सत्यवद् भावयित्वा प्रतिक्षिप्तम् । अत्र ममैवापराधः । अनेनैवालम् । अतः परं भवन्तं पृच्छामि अनुत्फुल्लं भवतो वदनकमलम् । इदानीमेवैवं दृष्टम् । पूर्व नित्यविकस्वर- मेव, नान्यकमलवत् पर्यायेण सङ्कोचविकासयुक्तम् । अतो हृदयं सन्तापगर्भ पिशु- नयति । वदनम्लानिकार्येणान्तःसन्तापोऽनुमातुं शक्यः । तत् कोऽत्र हेतुः । वैव-. १. 'णअदि' इति क. पाठ: -