पृष्ठम्:तपतीसंवरणम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे वृत्तयः । प्रस्पष्टमभिधीयताम् । । विदूषकः - (क) जइ एव्वं कहइस्सं । अहं आरूढहयो गदुअ णिवत्तिअ देविं णियमादो आअच्छन्तो राजवीहीअं तेण दुठ्ठतुरएण कंदुअक्कीळं मए कीळन्तेण कहिं पि पक्वित्तो ह्मि । तैदो चिन्तिअं च मए । अज्ज आसणस्स अत्थिर- दाए अस्सारोहणेण गअणगमणस्स अद्धमेतं सिक्खिअं, ता देवासुरविमद्दपरिइदम्बरगमणस्स वअस्सस्स सआसा- दो सअळं सिक्खिस्सं त्ति । ता उवदिसदु मे वअस्सो । राजा — मूर्ख! अस्यां क्रियायामकिञ्चित्करा मादृशामुपदेशाः । पश्य- १४ (क) यद्येवं कथयिष्यामि । अहमारूढहयो गत्वा निवर्त्त्य देवीं नियमादागच्छन् राजवीथ्यां तेन दुष्टतुरगेण कन्दुकक्रीडं मया क्रीडता कापि प्रक्षिप्तोऽस्मि । ततश्चिन्तितं च मया । अद्यासनस्यास्थिरतयाश्वारोहणेन गगनगमनस्यार्द्धमात्रं शिक्षितम् । तद् देवासुरविमर्दपरिचिताम्बरगमनस्य वयस्यस्य सकाशात् सकलं शिक्षिष्य इति । तदुपदिशतु मे वयस्यः । एवं नृपबुद्धिमविज्ञाय स्वनियोगानुष्ठानमनूद्य पुनरपि प्रहसनशेषतया तुर- गणतनेन सिद्धस्याम्बरगमनस्य शेषोपदेशं प्रार्थयते - उपदिशतु मे वयस्य इति ॥ - इमं प्रहसनार्थं जानन्नपि तदनुबन्धस्य प्रकृतानुपयोगेन विच्छेदमवेक्ष्य तत्प्रार्थनायां वस्तुतां भावयित्वा अलीककोपेन प्रतिक्षिपति - मूर्खेत्यादि । त्वया मदभिप्रायमविज्ञायास्थाने प्रहसनव्याप्तिः क्रियते, मयापि त्वत्प्रहसनं सत्यं भा- वायत्वोत्तरं कथ्यते इत्यभिप्रायः । तदनुगुणं प्रतिक्षिपति - अस्यामित्यादि । अ- स्यामम्बरगमनक्रियायाम् । अकिञ्चित्कराः निरुपयोगाः । मादृशां राजधर्ममुद्वहताम् । १. इदं पदं घ. पुस्तके नास्ति. २. ‘त्तो।' इति क-ख-ग-पुस्तकेषु पाठः. क-ख-पुस्तकयोर्नास्ति, ३. इदं पदं