पृष्ठम्:तपतीसंवरणम्.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । राजा - सखे ! कथमयथापुरस्तवायमवयवव्यापारः । en av विदूषकः– (क) पसादादिसओ । राजा — कोऽभिप्रायः ।


ALF विदूषकः— (सहासम्) (ख) अणक्खरं अणाआरसूइदं पि अत्थं उप्पेक्खिअ भणन्तो तुमं एह्णिं अक्खरळक्खिअं आआर- सूइदं पि एदं जाणिदुं अकुसळो होहि । ता कहिं दे ग अं पण्डिच्चं । राजा - ननु भवादृशामम्भोधिगम्भीरचेतसामतिदुरवबोधाश्चित्त- - (क) प्रसादातिशयः । (ख) अनक्षरमनाकारसूचितमप्यर्थमुत्प्रेक्ष्य भणन् त्वमिदानीमक्षरलक्षितमाकार- सूचितमप्येतद् ज्ञातुमकुशलो भवसि । तत् क्व ते गतं पाण्डित्यम् । - तद्वैवश्यं दृष्ट्वा पूर्वं शङ्कितस्य प्रश्नः - सखे ! कथमित्यादि । सखे! इति समसुखदुःखत्वं हि सख्यम् । तत् कथं मत्संविभागं विना त्वया देहवैवश्यदुःख- मनुभूयते तन्निमित्तकथनेन व्यसनसंविभागी भवेत्यर्थः ॥ (प्रसादातिशय इति) प्रसादातिशयस्य मूलकारणत्वं हृदि निधाय एव- मुक्तिः ॥ एवं प्रसादवैवश्ययोर्हेतुहेतुमद्भावस्यापरिस्फुटत्वेन कोऽभिप्रायः इति प्रश्नः ॥ तत्र प्रहसनेनाक्षिपति–अनक्षरम् अनुक्तम् । अनाकारसूचितं नयनविका- रादिभिरप्रकाशितम् अर्थम् । उत्प्रेक्ष्य विचारदृष्टया निश्चित्य | भणन् सर्वदा व्य- वहरन् । इदानीम् अक्षरलक्षितं “प्रसादातिशय” इति शब्देन प्रकाशितप्रायम् । आकारेण शरीरसन्निवेशेन सूचितं च ज्ञातुमकुशलो भवसि । तत् व गतं ते पाण्डित्यम् इति तन्मनोवैवश्यमनवधाय प्रहसनाक्षेपः ।। तत्रालीकप्रशंसया तत् प्रहसनमनुसृत्य परिस्फुटोक्तिं प्रार्थयते-नन्वित्यादि- ना । आत्मनो हृदयव्याक्षेपमनिरूप्य तेनाङ्गीकृतं प्रहसनार्थमनिच्छन्नपि दाक्षिण्ये- नाङ्गीकृतवान् । अत एवमुक्तिः ॥ १. 'दातिस' इति घ. पाठ:. २. इदं पदं क-ख. पुस्तकयोर्नास्ति. ३. इदं पदं क ख. पुस्तकयोर्नास्ति.