पृष्ठम्:तपतीसंवरणम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे (पुरतो विलोक्य) अये असौ वयस्यः पाराशर्यः किमप्युद्विग्न इव तिष्ठति । तत् को नु खल्वस्यायासहेतुः । विदूषकः– (उपसृत्य कथमपि दक्षिणं पाणिमुन्नमयन्) (क) जेदु भवं । (क) जयतु भवान् । सङ्कोचेन नयनरश्मिनिरोधाभावे स्थितेऽपि न कार्य करत्ववत्तयावस्थितिनवेक्षिता इति अद्यापि स्थितमित्यनेन प्रकाशितम् । दिनोदये एवमपि कथं स्थितमित्यत्र हेतुमाह — अर्कमहसामग्रैरनालीढया अर्कमहसाम् अरुणकिरणानाम् । अग्रैः प्रान्तभागैः। अनालीढया ईषदप्यस्पृष्टया । तत्र सति कथं लेशस्यापि स्थितिरिति भावः । भुवनतमःसंहारसरलानामर्कमहसां कथं तमोलेशनिरसनापाटवमित्य- त्राह—अतिमात्रमप्रौढैः उदयसमनन्तरप्रसरणेन बालतया अतितरामनुद्धतैः अत एव मण्डलोपान्तमजहद्भिः झटिति दिगन्तव्याप्तिमनवलम्बमानैः । अप्रौढतायां हृद्यतामाह —शालीनामित्यादि । शार्लानां 'क्षुण्णः सितः स्मृतः शालिः' इति लक्षितानां तुषापनयने धवलतण्डुलानां शुकधान्यविशेषाणाम् । परिपच्यमानाः स्वय मेव पाकं प्रतिपद्यमानाः याः कणिशश्रेण्यः तासां शिखावत् शूकवत् पाटलैः । अग्राणां बहुत्वात् श्रेणीत्युक्तम् । अनेन कोमलत्वं दृश्यत्वं चोक्तम् । रश्मिव्याप्तौ सत्यां बालातपोन्मेष इति तद्व्याप्तिकथनेनानुन्मिषितबालातपत्वं समर्थितम् । अत्र दिनावस्थामवेक्ष्य स्ववृत्तान्तस्मरणं व्यज्यते । मम जन्म सन्तत्यनुदयेन सिद्धमपि न फलवत् । तत्र समीहितप्रतिबन्धकतया दुरितशेषो वर्तते । पुण्योपचयेन तदु- न्मूलने साध्यसिद्धिर्भवेद् इति ॥ ५ ॥ उषःकालावस्थां वर्णयित्वा अन्विष्यमाणं सहसा दृष्ट्वा तद्वैवश्यदर्शनेन साशङ्कमाह - • असौ इत्यादि । किमप्युद्विग्न इव तिष्ठति केनापि हेतुना उद्विग्न इव पीडित इव | हेत्वनिश्चयेन इवेत्युक्तिः । उद्वेग- श्चित्तपीडा । तिष्ठतीत्यनेन देहपीडा कल्यते पूर्वं दर्शने झटिति समीपोपसर्पणमेव दृष्टम् | इदानीं तिष्ठत्येव । अतो देहस्य वैवश्यं ज्ञायते । उभयमपेक्ष्य हेतुशङ्का । आयासः देहमनसोः परिश्रमः ॥ १२ अथ विदूषकः प्रहसनार्थं पुरस्कृत्य स्ववृत्तिं निवेदयति वैवश्यद्योतनाय - कथमपीति । दक्षिणहस्तोन्नयनम् आशीर्वादशेषतया ॥ १. 'परिक्रम्य )' इति क. पाठः,