पृष्ठम्:तपतीसंवरणम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । मया हि प्रातरेव स्वप्नप्रतिष्ठापनप्रयोजनायाहूतः प्रियव — यस्यः पाराशर्यो नाद्याप्यायातः । (समन्तादवलोक्य) अये अ- नुन्मिषितबालातपोऽयं दिवसावतारः । तथा हि शालीनां परिपच्यमानकणिशश्रेणीशिखापाटलै- रप्रौढैरतिमात्रमर्कमहसामग्रैरनालीढया । सङ्कोचाधिपश्चिमाशमपरिध्वस्तावकाशं दृशा- मद्यापि स्थितमम्बुराशिलहरीतन्व्या तमोमात्रया ॥ ५ ॥ - त्वम् । अपिशब्दो भिन्नक्रमः ॥ ४ ॥ एवमपत्यमहत्त्वं समर्थ्य स्वप्ननिवेदने त्वरमाणो वयस्यस्य विलम्बनेन खिन्न आह - मया हीत्यादि । स्वमप्रतिष्ठापनप्रयोजनाय प्रतिष्ठापनम् इदं मया दृष्टमिति श्रोतरि समर्पणं तेन प्रयोजनमनन्तरकर्तव्यादि- निरूपणं तदर्थं, केवलप्रतिष्ठापनस्य निरुपयोगत्वात् । प्रतिष्ठापनस्यापि साध्यत्व- मनुक्तसिद्धम् । यद्येवं न योज्यते प्रतिष्ठापनाय इत्येवालम् । प्रियवयस्य इत्यन्त- रङ्गत्वेन स्वप्नसमर्पणयोग्यत्वं प्रकाशितम् । अद्यापीति प्रतिपालनेनाल्पस्यापि का लस्य दैर्घ्यं कल्पयित्वोक्तिः । हिशब्दस्य स्वस्थानं विमुच्य नञा समन्वय एव शरणं न हीति । अथ प्राभातिकीं शोभामवलोक्य कथयति — अये इत्यादि । अये इति स्मरणे । मया कालातिपातो निरूपितः । दिवसस्य तथा न प्रौढत्वं जा- तम् । यतः अनुन्मिषितबालातपः बालातपस्यापि व्याप्तिः व्याप्यदेशव्यापित्वं न परिपूर्णम् । तत्साधनायोपक्रमते — तथा हीति । दृश्यत इति शेषः । शालीना- मित्यादि । तमोमात्रया अद्यापि अधिपश्चिमाशं स्थितमित्यन्वयः । मात्रा लेशः । अद्यापि प्रभाते प्रकटेऽपि । अघिपश्चिमाशं पश्चिमाशापर्यन्तेषु, दिगन्तरेषु तेज:- प्रसरेण निरस्तत्वाद् अधिपश्चिमाशमित्युक्तम् । तत्रापि तुच्छत्वं मात्रयेत्यनेनो- क्तम् । तमोंऽशस्य प्रमाणमाह—— अम्बुराशिलहरीतन्व्या सन्निहितस्य अम्बुराशे- स्तरङ्गकणवत् स्वल्पया । अद्यापि स्थीयत इति वक्तव्ये स्थितमित्युक्त्या निर्वा- णोन्मुखप्रदीपवत् स्थित्यामपि कार्याक्षमत्वं सूचितम् । अत एवोक्तं सङ्कोचाद् दृशामपरिध्वस्तावकाशमिति । सङ्कोचात् नष्टशेषत्वेनाल्पतया । दृशां नयनरश्मीनाम् । अवकाशः विषयप्रसरमार्गः यथा न परिध्वस्तो भवति तथेति क्रियाविशेषणम् । -