पृष्ठम्:तपतीसंवरणम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे (ततः प्रविशति सान्तस्तापः सपरिवारो राजा) राजा – (सविमर्शम्) अहोनुखलु अपत्याभिधानस्य पदार्थान्तरस्य B महिमा । कुतः प्रियतनयवियोगे पुत्रिणां खेदवृत्ते- र्विगणयितुमियत्तां कः पुमानुत्सहेत । प्रसवगुणवियुक्तां मन्यमानस्य देवी- मपि मम हृदि तापो जृम्भते दुर्निंवारः ॥ ४ ॥ १० शयेन तस्य महत्त्वं विमृशन्नाह - अहोनुखल्वित्यादि । अपत्याभिधानस्य अपत्यनामधेयस्य अभिधानमेवास्याद्यतनमिति तथोक्तम् । पदार्थान्तरस्य महिमा हृद्यतादिभिर्गुणैर्वैशिष्ट्यं चित्ताकर्षकत्वं च । लोके गुणोत्तराणां मणिहिरण्यादीनां गजाश्वादीनां प्रियतमासुहृत्प्रभृतीनाम् एतत्पङ्किनिवेशोचितं न सौभाग्यम् अत एव पदार्थान्तरस्येत्युक्तम् । अहोनुखल्विति निपातसमुदाय आश्चर्यद्योतकः । आश्चर्य- विषयमहिमोपाधित्वेनात्र सम्बध्यते । महिमा आश्चर्यभूत इत्यर्थः । किमस्याश्चर्य- त्वमिति समर्थनाय कुत इत्याकाङ्क्षामुद्भाव्य कथयति-प्रियतन येत्यादि । देवीं प्रसव- गुणवियुक्तां मन्यमानस्य ममापि हृदि दुर्निंवारस्तापो जृम्भते । देवीं सौशील्या- दिना द्योतमानां गृहिणीम् । प्रसवगुणवियुक्तां प्रसवोचितगुणवियुक्तां वन्ध्याम् । मन्यमानस्य इदानीमेवाप्तवचनेन निश्चिन्वानस्य । ममापि अजातपुत्रस्येत्यर्थः । दुर्निवारः विचारादिभिर्निवारयितुमशक्यः । तापः मनोज्वरः । जृम्भते ममापि विषयस्यादर्शनेऽपि सङ्कल्पमात्रेण प्रतिक्षणं वर्द्धते । एवं स्थिते पुत्रिणां पुत्रवतां पित्रादीनाम्। प्रियतनयस्य गुणबाहुल्येन प्रियस्य पुत्रस्य वियोगे आत्यन्तिके आ- न्तरालिके वा । खेदवृत्तेः खेदे वृत्तिः खेदवृत्तिः खेदानुभवः । खेदस्य वृत्तिर्वा । खेदः सन्तापः । तस्या इयत्ताम् । विगणयितुं ईदृशीति परिच्छेत्तुम् । कः पुमान् सर्वज्ञोऽपि । उत्सहेत उत्साहमवलम्बितुं शक्नुयात् । न कोऽपीत्यर्थः । अत्र अन्ये- षां पदार्थानां मणिहिरण्यादीनां विनाशो लब्धस्य व्यथयतितरां, न त्वनुदयः इति युक्त्या सिद्धस्य नाश एव व्यथावहः न त्वनुद्भवः । अस्य त्वजन्मैवात्यन्त- तापहेतुः, किं पुनर्जातस्यापायः इत्यस्य विशेषः । अत एव महिम्न आश्चर्यकर-