पृष्ठम्:तपतीसंवरणम्.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । जणो अस्सो पारासरिओ त्ति अप्फुडं आळवंतो हास- णिरोह दुप्पेक्खमुहो हसिदुं अहसिदुं अ अपारअन्तो प ज्जाउळो होइ । (नेपथ्याभिमुखमवलोक्य) एसो वअस्सो प रिसमाविअपडिकम्मविहाणो इदो एव्व आअच्छदि । ता कीस अत्ताणं खेदइस्सं । एत्थ एव्व चिट्ठिस्सं । (स्थितः)। ष्यामि । अहो मम प्रभावो, यत्सर्व एव हस्तिनपुरवास्तव्यो जनः अश्वः पाराशर्य इत्यस्फुटमालपन् हासनिरोधदुष्प्रेक्षमुखो हसितुमहसितुं चापारयन् पर्याकुलो भवति । एष वयस्यः परिसमापितप्रतिकर्मविधान इत एवागच्छति । तत् किम- र्थमात्मानं खेदयिष्यामि । अत्रैव स्थास्यामि ॥ यानेन अश्वरूपेण यानेन वाहनेन । पल्लत्थो ह्मि पर्यस्तोऽस्मि । घेत्तिस्स ग्रहीष्यामि अविधेयत्वादाकृष्य नेप्यामि । नीचिकया वक्रीकृताङ्गत्वमवलम्ब्य | हत्थिणपु- रवत्थव्वो हस्तिनपुरवास्तव्यः हस्तिनपुरवासी, कर्त्तरि तव्यत्प्रत्ययः । अस्मत्प्रभा- वेण हसितुमसामर्थ्यं हास्यप्रकर्षेण अहसितुम् । अत एव वाक्यस्यापूर्णतया अस्फुटालापः । परिसमापितप्रतिकर्मविधानः प्रतिकर्म प्रसाधनम् अलङ्करणम् । उप- लक्षणमिदं प्राभातिकानुष्ठानस्य | आत्मानं विवशं देहम् । चिट्ठिस्सं स्थास्यामि ॥ तत्वम् । अथ नायकप्रवेशः । अत्र नायकस्वरूपे निरूप्यमाणे सान्तस्ताप इत्युक्त्या अपुत्रत्वेनाकृतार्थतया च नैश्चिन्त्याद्यभावेन सचिवायत्तसिद्धित्वेऽपि नास्य ललि- तत्वम्। अत उदात्तत्वमेव । नायिकान्तरपरिग्रहभोगोत्सुकत्वादिकं पुत्रोत्प- त्तिशेषतयां । अत एवादावपत्यमहिमसमर्थनं, 'न सुतसमुद्भवलाभादपर' (अङ्क. १. श्लो. ९.) इति सुतस्य प्रीतिहेतुत्वकथनम्, अन्ते 'किं वा दत्तो न वंशकरः सुत' (अङ्क ६. लो. १४.) इति सुतस्य परमप्रयोजनत्वक- थनं च । रसश्च शृङ्गारोऽङ्गी । सोऽपि कामानुबद्धधर्मप्रधानः । हास्यादीनि तदङ्गभूतानि । तत्र दक्षिणस्योत्तमाधममध्यमभेदेन त्रैविध्यं तेष्वेकोऽयम् । एवं प्रविष्टस्य चिन्ताप्रकारः । स्वप्ने सूर्यवचनेन नायिकायां तनयोत्पत्त्यभावनिश्चयेन खिन्नः प्रातरेव कृत्यं निर्वर्त्य स्वप्ननिवेदनार्थमाहूतं वयस्यमनालक्ष्य कथनत्वरया सपरिवारः स्वयं निर्गतः पितृविषयम् ऋणबन्धं निरूप्य पुत्रविषयेण ममताति-