पृष्ठम्:तपतीसंवरणम्.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१४ तपतीसंवरणे विश्लिष्यद्विषयानुषङ्गकलुषीभावा घनश्यामले भक्तिर्मे परिपच्यतामहरहः श्रेयस्करी श्रीधरे ॥ १६ ॥ . ( इति निष्कान्ताः सर्वे ) इति षष्ठोऽङ्कः । समाप्तमिदं तपतीसंवरणं नाम नाटकम् । विदुषाम् । घियः मात्सर्यवन्ध्याः परोत्कर्षेऽसहमानत्वं मात्सर्ये तद्रहिताः । कवेः प्रबन्धकर्तुः । गुणान् प्रतिभादीन् । सङ्गृह्णन्तु अङ्गीकुर्वन्तु । अन्यथा कविभणि - तीनामरण्यरुदितायमानत्वं भवेत् । पुनश्च श्रीधरे मे भक्तिः परिपच्यताम् । सक- लसम्पज्जनन्या लक्ष्म्या समाश्लिष्टे भगवति मे भेदभ्रमेण संसारयन्त्रजाले वर्तमा नस्य भक्तिः बहुमतिपूर्वा अहरहः परिपच्यतां दिनेदिने स्वयमेव परिपाकं व्रजतु । तत्रापि विशेषोऽपेक्षितः । विश्लिष्यद्विषयानुषङ्गकलुषीभावा विश्लिष्यन् प्रतिदिनं शिथिलीभवन् विषयानुषङ्गेण (कलुषीभावो यया सा) | विषयेच्छानुषङ्ग- कलुषीभावविश्लेषस्य च तदाश्रयत्वात् कालुप्यापचये भक्तिवृद्धिर्भवेद् भक्तिव- र्धनेन कालुष्यविश्लेष इत्यन्योन्योपकारकत्वम् । अत आत्मनः श्रेयोविघातकवि- षयानुषङ्गकालुष्यं विना भक्तिरेव वर्धतामित्यर्थः । भक्त्यालम्बनस्य दिङ्मात्रं प्रका- शयति -- घनश्यामले इति । नीरदवत् श्यामले अनुसन्धान वि (ग्रह ? षय) स्य भग- वद्विग्रहस्य स्मरणे वर्णस्य प्राथम्यमिति श्यामल इत्युक्तम् । उपलक्षणत्वेन पीताम्बरमकरकुण्डलकिरीटकौस्तुभवनमालाशङ्खचक्रादिपरिशोभिते एवम्भूते श्रीधरे भक्तिः स्वयमेव परिपच्यताम् । तत्फलं प्रकाशयति - श्रेयस्करी श्रेयः प्राप्तिहे- तुभूता संसारार्णवे परिवर्तमानस्य जन्तोः श्रीमन्नारायणपदाम्बुरुहसायुज्यमेव श्रेयः तद्धेतुभूता । अत्र भक्तिज्ञानवैराग्येषु भक्तेरेव प्राबल्यम् । सा ज्ञानवैराग्ये समा- कर्षतीति भक्तेरेव श्रेयस्करीत्वमुक्तम् । एवं नाटकावसाने जगदनुग्रहाय शुभशंसनं कृतम् || शिवम् || इति षष्ठोऽङ्कः । इति तपतीसंवरणविवरणं समाप्तम् ।