पृष्ठम्:तपतीसंवरणम्.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे (कुमारस्तथा करोति) विदूषकः - (हर्षकम्पिताभ्यां कराभ्यामालिङ्ग्य) (क) वच्छ! सोत्थि होदु । (विलोक्याकाशे) उप्पाळिए ! कीस तुवं आअदा । किं भणासि देवीए सळ्ळराअपुत्तीए पुत्तसड़गदं महाराअं सम्भावेदुं पेसित्ति । एसो कुमारो पणमिदुं आअच्छइ । गच्छ दाणिं तुवं । वसिष्ठः - किं ते भूयः प्रियमुपहरामि । राजा AGE मिहिरदुहिता किं नानीता परेतपतेः पुरा- दिह भगवता किं वा दत्तो न वंशकरः सुतः । (क) वत्स ! स्वस्ति भवतु । उत्पलिके! कस्मात् त्वमागता । किं भणसि देव्या साल्वराजपुच्या पुत्रसङ्गतं महाराजं सम्भावयितुं प्रेषितेति । एष कुमारः प्रणन्तुमागच्छति। गच्छेदानीं त्वम् । तदभिवादने स्वस्ति भवत्वित्याशिषं प्रयुज्याकाशभाषितेन पूर्वनायिका- वृत्तमासूत्रयति - उत्पलिके कस्मात् त्वमागता । किं भणसि देव्या साल्वराज- पुत्र्या पुत्रसङ्गतं महाराजं सम्भावयितुं प्रेषितास्मीति । एतदाकाशभाषितमङ्गीकृ त्योत्तरमाह -- एष कुमारः प्रणन्तुमागच्छति । गच्छेदानीं त्वमिति । अनेन नाय- कस्य पुत्रोत्पत्तिस्तयाङ्गीकृतेत्यनेन पूर्वप्रस्तुतमत्व दाक्षिण्यं निर्व्यूढम् || www एवं परोपकारनिरतो वसिष्ठस्तत्साध्यं संसाध्य पुनरपि पृच्छति - किं ते भूयः प्रियमुपहरामीति । इदं प्रियं निर्व्यूढम् । प्रियान्तरमप्यस्ति चेत् कथय तदपि साधयामीत्यभिप्रायः ॥ एवमुक्तः सिद्धानि वस्तूनि प्रत्येकं निर्दिश्य कृतार्थतया साध्यान्तरनिरपे- क्षत्वं प्रकाशयति – मिहिरदुहितेत्यादि । इह भगवता मिहिरदुहिता परेतपतेः १. 'रः - अभिवादये' इति क घ. पाठः. २. 'क: - (सहर्षमालिङ्गन) व' इति ख. पाठः, ‘कः-व' इति क. पाठः, ३. 'दाव' इति ग. पाठ, ४. 'ट:-- भो राजन् किं' इति ख, पाठः.