पृष्ठम्:तपतीसंवरणम्.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठोऽङ्कः । नयोरेव युवयोः सूर्यशासनात् प्रसवसमय एवं विमोह्यैनां रम्भया गूढमेव सावित्रीसकाशं नीतः । तदेवानया स्वप्न- दर्शन मिवानुभूतम् । राजा--- ततस्ततः । वसिष्ठः---- ततः कतिपयदिनजनितदेहमहिमानममुमसुरविजयार्थ प्रार्थितं सुत्राम्णा "कुरु सुरकार्यमिति समादिदेश मा तामहः । ततश्चायं कुरुरभवत् । राजा ---- ततस्ततः । वसिष्ठः---अवसितसुरकार्यामिममद्यात्मसमीपे वर्तमानं मया सह प्रहितवानहिमभानुः । राज ----(सबाष्पगद्गदं) एहि वत्स ! | (परिष्वज्य मूर्ध्न्युपाघ्रायाङ्कमारोपयति ) नायिकों----(क) अय्यउत्त! अहो दे अत्तम्भेरिदा । (तस्योत्सङ्गाद् बलादाकृष्यालिङ्गन्ती स्तन्यमित्रैरानन्दा श्रुभिरभिषिञ्चति) राजां----(विदूषकं दर्शयित्वा) वत्स ! वन्दस्व पितरम् । (क) आर्यपुत्र ! अहो ते आत्मम्भरिता । एवं मुनेः कुमारोदन्तं श्रुत्वा कृतार्थो नायकः प्रथमप्रस्तुतस्य 'प्रियतनये' (अङ्क. १. श्लो. ४)त्यादिना सूचितस्य सन्तापस्यापनयनेन कृतार्थस्तमङ्कमारोपयति ॥ तदाश्लेषोत्सुका नायिका लीलया कान्तमधिक्षिपति- आर्यपुत्र ! अहो ते आत्मम्भरिता स्वभागप्रवणत्वम् । अहो इति साधारणे वस्तुनि ममैवायमिति भा- वनं न युक्तम् । अहमवसरं न प्रतिपालयामीत्यभिप्रायेण तदुत्सङ्गादाकृष्य पुत्र- मालिङ्ग्य स्तन्यमिश्रैरश्रुभिरभिषिञ्चतीत्यनेनोभयोः कृतार्थता प्रकाश्यते ॥ - २. वन्दस्व पितरमिति । पितृवयस्यस्यापि पितृत्वं सौहार्देनेत्युक्तम् ॥ १. 'नाद् विमोह्यैनां प्रसवसमय एव रम्भ' इति क-घ. पाठ:. 'तदन' इति क- ख. पाठः, 'तदेवान' इति घ. पाठः, ३. 'जा-ए' इति ख. पाठः, 'जा--- (सहर्षवा' इति ख-घ. पाठः. ४. 'का- अहो' इति ख. पाठ: ५. 'रितणं (ब' इति ख. पाठ:. ६. 'जा-व' इति क-घ. पाठः.