पृष्ठम्:तपतीसंवरणम्.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१० तपतीसंवरणे - नायिका – (सानन्दम् ) (क) वच्छ ! सिणेहो तुमं जाणइ, ण उण अहं । दिग्घाऊ होहि । विदूषकः --- (ख) णत्थि मे सन्देहो। दुप्पणे णिक्खित्तो विअ तुह्माणं एसो पडिबिम्बो । वसिष्ठः – अलं विचिकित्सया । श्रूयतामस्योदन्तः । राजो- (सादरम्) अवहितोऽस्मि । वसिष्ठः -- पुरैषा तपनवने गर्भभरणानन्तरमात्मप्रभावादात्मज- जमिमं प्रसूतवती । राजो-ततस्ततः । वसिष्ठः- ततः सुरैरवध्यानामसुराणां निग्रहार्थमस्य तेजोबलश- रीवर्धनैरभौमैराहारैः पोषणार्थं चानघिगतपुत्रविरहवेद- (क) वत्स ! स्नेहस्त्वां जानाति, न पुनरहम् । दीर्घायुर्भव । (ख) नास्ति मे सन्देहः । दर्पणे निक्षिप्त इव युवयोरेष प्रतिबिम्बः । शेषतया । तापत्यः तपतीतनयः । सांवरणिः संवरणात्मजः । पूर्व सिद्धस्वरूपयोस्त- योर्युवां मे पितराविति बोधनपूर्वे नमस्कारः । कुरुरिति स्वनामकथनम् ॥ १४ ॥ विश्वासमनबलम्बमानोऽप्युक्तार्थोचितामाशिषं प्रयुङ्क्ते – योऽसि को- ऽसि चक्रवर्ती भूयाः । अस्मत्पुत्रतायामिदमेवाशास्यमिति भावः ॥ अथ नायिकाया उक्ति:- - वत्स ! स्नेहस्त्वां जानाति, न पुनरहं, स्नेह- रूपा मनोवृत्तिस्त्वयि प्रसरत्येव । अतो जानातीत्युक्तम् । सर्वथा दीर्घायुर्भव ॥ एवं तयोर्विकल्पं निरस्यति विदूषकः - नास्ति मे सन्देहः । दर्पणे नि- क्षिप्त इव युवयोरेष प्रतिबिम्बः ॥ - एवं तद्वितर्कं श्रुत्वा वसिष्ठस्तत्त्वं बोधयति - अलं वितर्केण श्रूयतामस्यो- दन्तः । पुरैषा तपनवन इत्यादिना तस्योदन्तकथनम् || १. 'जा-अ' इति ख. पाठः. २. ‘जा(सहर्षे)त' इति ख. पाठः,