पृष्ठम्:तपतीसंवरणम्.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठोऽङ्कः । वत्स ! वन्दस्व पितरौ । कुमार:- (सप्रणामम् ) मूर्ध्ना नम्रेण ताम्राणि पादपङ्केरुहाणि वाम् । तापत्यो वन्दते पित्रोरेष सांवरणिः कुरुः ॥ १४ ॥ राजा--- (सस्पृहमवलोक्य सरोमाञ्चम् ) वत्स ! योऽसि कोऽसि, चक्र- वर्त्ती भूयाः 1 प्रबन्धस्य प्रसरणाशंसा व्यज्यते । तत्र तपतीसंवरणाख्यं नाटकम् अङ्गभाजां “देवानामिदमामनन्ती "त्युक्तवत् सर्वेषामेव तत्तदधिकारोचितरससमर्पणेन पर- मानन्दं तनोतु । एतदस्य मुख्यं फलं, यद् रसचर्वणेन सामाजिकाना- मानन्दकरत्वम् । तादृशं गुणसामग्रयमाह परिवृद्धानां तत्तदुचितवि- भावानुभावव्यभिचारिसमेधितस्थायिरूपाणां रसानां शृङ्गारादीनामङ्गाङ्गिभावस्थि- तानाम् अनुकूला भावा निर्वेदादयो यत्र । तथा गुणवत् काव्यनाटकोचितशब्दा- र्थरसाश्रयगुणसम्पन्नम् । तथा प्रोज्ज्वलाः तत्तदितिवृत्तांशनिर्व्यूढाः । आरम्भयत्न- प्राप्त्याशानियताप्तिफलागमरूपाय स्थापञ्चकबीजबिन्दुपता का प्रकारी कार्यलक्षणार्थप्रकृ- तिपञ्चकविभक्तमुखप्रतिमुखगर्भावमर्शनिर्वहणरूपसन्धिपञ्चकविशिष्टम् । ललितं ललिताख्यनाटकजातिरूपम् । ललिताङ्गं ललितसन्ध्याश्रयचतुष्षष्ट्यङ्गयुक्तम् । अथवा ललिताङ्गानि षट्त्रिंशदूभूषणानि । अङ्गभाजाम् अङ्गप्रयोगभाजां नाट्योप- जीविनामिति च विवक्षितम् । Bayar “पूर्ण चैव प्रशान्तं च भास्वरं ललितं तथा । समग्रमिति विज्ञेया नाटके पञ्च जातयः " ॥ इत्युक्तत्वादयमर्थः कवेरभिप्रायरूपो व्यज्यते ॥ १३ ॥ बन्दस्व पितराविति मुनिनिर्दिष्टः कुमारः स्वस्वरूपप्रकाशनपूर्वे नमति– एष सांवरणिः कुरुस्तापत्यः पित्रोर्वा पादपङ्केरुहाणि नम्रेण मूर्ध्ना वन्दते । एष सांवरणिरिति परीकृत्य वचनं विनयेन, अहमित्युक्ते औद्धत्यप्रतीतेः । मूर्ध्ना नो- णेति मूर्ध्नोऽभिवादने करणत्वम्, तत्रापि नम्रस्यैव । ताम्राणीति परुहत्वारोप- १. 'र:- मू' इति क.ख. घ. पाठ:. २. 'जा-व' इति क. घ. पाठः ३. 'क्य) व ' इति ख पाठ.