पृष्ठम्:तपतीसंवरणम्.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०८ तपतीसंवरणे वसिष्ठः- (अधो विखोक्य) वत्स ! एतौ ते पितरौ तिष्ठतः । तदेह्य- वतरावेः । (अवतरणं नाटयतः) राजां--- (विलोक्य) अये गुरवः सम्प्राप्ताः । (उपसृत्य) भगवन् ! अभिवादये । नायिका - (क) भअवं वन्दामि। वसिष्ठः --- (उभाववलोक्य ) परिवृद्धरसानुकूलभावं गुणवत् प्रोज्ज्वलसन्धि सम्प्रहर्षम् । ललितं ललिताङ्गमङ्गभाजां तपतीसंवरणं तनोतु दीर्घम् ॥ १३ ॥ (क) भगवन् ! वन्दे । अथ वसिष्ठोऽयो विलोक्य एतौ ते पितरौ तिष्ठतः । तदेयवतराव इत्यु- क्त्वावतीर्णः ॥ अथ राजा सम्भ्रमेण दृष्टा अये गुरवः सम्प्राप्ता इत्युक्त्वोपसृत्य भगव- न्नभिवादय इति समुद्राचारं प्रयुक्तवान् || नायिका च भगवन् ! वन्दे इति (मनस्तु ? नमस्कृ) तवती ॥ - अथ वसिष्ठस्तावभिमुखीकृत्याशिषं प्रयुङ्के । परिदृद्धेत्यादि । तपती- संवरणं तपती च संवरणश्चेति द्वन्द्वैकवद्भावेन निर्देशः । तेनैव नपुंसकत्वम् । तपतीसंवरणाख्यमिदं मिथुनम् अङ्गभाजां सर्वेषामेव देहिनां दीर्घं चिरकालमवि- च्छिन्नं सम्प्रहर्षं सम्यञ्चं दुःखामिश्रं प्रहर्षं तनोतु । सम्यक्परिपालनेन प्रजाप्रीति- रेवास्य मुख्यकर्तव्यमिति तदेवाशास्यते । किमस्य मिथुनस्यातिलोभनीयत्वमि- त्यत्राह – परिवृद्धरसानुकूलभावं परिवृद्धस्य निरोधकाभावेन परितः प्रवृद्धस्य रसस्य परस्परानुरागस्यानुकूलो भावो मनोवृत्तिर्यस्य तादृशम् । तथा गुणवत् सौशील्यादिप्रशस्तसकलगुणयुक्तम् । तथा प्रोज्ज्वलसन्धि सन्धिः संश्लेषः स वंशेन वयसा गुणैश्च प्रोज्ज्वलः शिवयोरिव यस्य तत् । तथा ललितं मधुरस्वभा वम् । ललिताङ्गं सुन्दरसुकुमारकरचरणादिसमेधितम् । एवम्भूतत्वाल्लोकोत्तरमि- थुनमनेकं कालमवनितलमलङ्करोत्वित्यर्थः । अत्र शब्दशक्त्या कवेः स्व- १. 'वः । रा' इति ख. पाठः. २. 'जा-अ' इति क ख घ. पाठः