पृष्ठम्:तपतीसंवरणम्.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठोऽङ्कः । २०७ विदूषके: - (स्मृत्वा) (क) रक्खसीसम्मलेण एत्तिअं वेळं विसु- मरिदो एसो कण्णेउरो । राजा – (सस्मितम्) अनवसरे वर्णितः कर्णपूरः । अथवाय- मेव वावसरः । अयं हि --- सुरभिः सुकुमारो मे कण्टकयन् गात्रयष्टिमाश्लेषात् । भूयोऽप्यात्मसमस्ते वतंसको यातु कर्णान्तम् ॥ १२ ॥ (कर्णपूरमर्पयति) राक्षसी --- (ख) महाळाअ ! विशज्जीअदु एशा ळक्खशी । राजा --- अपेहि तावत् (अस्त्रबन्धं मुञ्चति) राक्षसी ---(ग) चिळं जीवह । (निष्क्रान्ता) (क) राक्षसीसम्भ्रमेणेयती वेलां विस्मृत एष कर्णपूरः । (ख) महाराज ! विसृज्यतामेषा राक्षसी । (ग) चिरं जीवतम् ।

अथ तयोरनागतयोर्विदूषकः स्वप्रवृत्तिमाह -राक्षसीसम्भ्रेणेयन्तं कालं विस्मृतः कर्णपूरः, तत आनीतोऽपि न प्रकाशितः । तद् गृह्यतामिति शेषः ॥ --- अनवसरे दर्शित इति । अस्य नायमवसरः विरहस्यातीतत्वादिति भावः । अथवायमेव वावसर इति । स्वस्थानप्राप्तेरिति शेषः । ततः प्रियाभिमुखं वदति – सुरभिरित्यादि । अयं वतंसकः भूयोऽपि ते कर्णा(न्तं)यातु । यतः आत्मसमः त्वत्समः । साम्यमुपपादयति - सुरभि: नाणेन्द्रियप्रीतिकरः । त्वमपि तथा । सुकुमारः मृदुतरमन्दारपल्लवकल्पितत्वादतिसुकुमारः । त्वमपि सौकुमार्या - धिदेवता । आश्लेषात् मे गात्रयष्टिं कण्टकयन् त्वदलाभे सन्तापशान्तये समा- श्लिष्टो मे गात्रयष्टिं कण्टकयन् | त्वं तथेति किमुच्यते । सर्वथात्मसमस्यास्य स्वस्थानस्थितिरेव शोभतेतराम् इत्युक्ता कर्णपूरं तत्कर्णे समर्पयति ॥ १२ ॥ १. 'कः --र' इति क ख घ. पाठ:. २. 'त्वा) एत्तिअं वेळ रक्खसीसम्भमेण वि' इति ग. पाठः, ३. 'जा-अ' इति ख, पाठः, ४. ‘रक्खसी ।' इति ग. पाठः ५. 'व (नि' इति ख-घ, पाठः