पृष्ठम्:तपतीसंवरणम्.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्टोऽङ्कः । २०५ विदूषक:--- (क) अहो अच्चाहिदं । (राक्षसीमवलोक्य) हदासे ! एत्तिअं उवआरं करन्ती तुमं अरक्खिन कहं चिट्ठह्म | नायिका---(आत्मगतम्) (ख) कहं अणवच्चाए मम तणओ । अहव बहुपरिग्गहो अय्यउन्तो। राजा--- (सस्मितम्) सकलमेतदुपपन्नम् । कः पुनर्मम तनयप्रसङ्गः । (ततः प्रविशति वसिष्टश्चापहस्तः कुमारश्च ) वसिष्ठः --- अहं तावत् - क्षीराम्भोधौ प्रथमपुरुषं ब्रह्मलोके विरिञ्चं कैलासाद्रौ विषमनयनं नाकपृष्ठे महेन्द्रम् । कृत्वा साक्षादथ च मिहिरं तस्य दौहित्रमेनं दातुं पित्रोः पुरमुपगतः पौरवीयामिदानीम् ॥ १० ॥ (क) अहो अत्याहितम् । हताशे ! इयन्तमुपकारं कुर्वती त्यामरक्षित्वा कथं तिष्ठामः । (ख) कथमनपत्याया मम तनयः । अथवा बहुपरिग्रह आर्यपुत्रः । हताशे ! इयन्तमुपकारं कुर्वतीं त्वामरक्षित्वा कथं तिष्टाम इति विरुद्ध- लक्षणयाक्षेपः ॥ -- तत्र नायिका विमृशति – कथमनपत्याया मम तनयोत्पत्तिः । अथवा बहुपरिग्रह आर्यपुत्रः, अतोऽन्यस्यामपि पुत्रोत्पत्तिर्घटते ।। सकलमेतदुपपन्नमिति । अनयोक्ते कुत्रापि नानुपपत्तिः । मम तनय- प्रसङ्गः पुनः कः । मम तनयप्रस्तावः तव तनयमागच्छन्तमित्युक्तं कथं घटत इति विमर्शः ॥ अथ कुमारमानेतुं प्राप्तो वसिष्ठः स्वामवस्थां प्रस्तौति - अहं तावदित्या- दि । अहं तावदिदानीं पौरवीयां पुरमुपगतः । इदानीं प्राप्तावसरतया तदेव प्रतिपादयति – क्षीराम्भोधौ प्रथमपुरुषं साक्षात्कृत्य प्रथम पुरुष प्रथमपुरुषत्वेन श्रुतिप्रसिद्धं नारायणं प्रत्यक्षीकृत्य पुनर्ब्रह्मलोके स्थितं विरिञ्चम् । तदनन्तरं - १. 'णअप्पसङ्गो ।' ख-घ. पाठः.