पृष्ठम्:तपतीसंवरणम्.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे अहं मोहिणिआ णाम ळक्खशी तुए वावादिअपुत्तशदा तहिं इशिप्पभावपडिहदकम्मा अज्ज एत्थ आअच्छिअ ळम्भाए जम्बूणदिभाए अ रूवेण शआणि शशहीअणं तुमं किदमळणववशाअं कळिअ शूळळोअं गच्छन्ती अ- न्तळा तुह तणअं वशिट्टेण शह आअच्छन्तं खाइदुकामा णिळुद्धम्बळगमणशत्तीहिं शळेहिं तेण एव्वं काळिदह्मि । ता मळिशेढुं एवं महाळाए । विदूषकः --- (ससम्भ्रमं जनान्तिकम् ) (क) भो वअस्स ! किं अज्ज एदाए किदं । राजां--(कण) एवमिव । अहं मोहिनिका नाम राक्षसी त्वया व्यापादितपुत्रशता तस्मिन् ऋषिप्रभा- वप्रतिहतकर्माद्यात्रागत्य रम्भाया जम्बूनदिकायाश्च रूपेण सजानिं ससखीजनं त्वां कृतमरणव्यवसायं कृत्वा सूर्यलोकं गच्छन्ती अन्तरा तव तनयं वसि- ष्टेन सहागच्छन्तं खादितुकामा निरुद्धाम्बरगमनशक्तिभिः शरैस्तेनैवं कारि- तास्मि । तन्मर्षयत्वेतन्महाराजः । (क) भो वयस्य ! किमयैतया कृतम् । मोचयिष्यामि इति । पुन: प्रकाशमाह --- शृणोतु महाराजः । अहं मोहिनिका नाम राक्षसी त्वया व्यापदितपुत्रशता तस्मिन् ऋषिप्रभावप्रतिहतकर्माद्यात्रा- गत्य रम्भाया जम्बूनदिकायाश्च रूपेण सजानिं ससखीजनं त्वां कृतमरणव्यव- सायं कृत्वा सूर्यलोकं गच्छन्ती अन्तरा तव तनयं वसिष्ठेन सहागच्छन्तं खादि- तुकामा निरुद्धाम्बरगमनशक्तिभिः शरैः तेनैवं कारितास्मि । तन्मर्षयत्वेतन्महा- राजः ॥ तच्छ्रुत्वा भो वयस्य ! किमेतया कृतमिति तत्कृतमजानानः पृच्छति ॥ एवमिवेति तदवस्थानिवेदनम् || १. 'दा विउणिअलीशा त' इति क. घ. पाठः २. 'दुमं म' इति पाठ 'दु म' इति ख. पाठ:. ३. 'मं) भो ' इति ख. पाठः, 'मं) वअस्स! किं एत्थ ए' इति क. पाठ: ४. 'एत्थ ए' इति घ. पाठ:. ५. 'जा--ए' इति ख. पाठ:.