पृष्ठम्:तपतीसंवरणम्.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे वासोजुअळाणि पेसिदाणि । ता वसह एदाणि । (उभौ तथा कुरुत:) नायिकां--- (सहर्षम् ) (क) जीवाविह्मि तादस्स पसादेण। राजा---(सानन्दम.) भवत्योर्वागतेन निर्वृतौ स्वः । मेनका -- (स्मृत्वा सभयम् ) (ख) सहि ! रम्भे ! जम्बूणदिआरूवेण रक्खसी गुरूणं पि किं पि करेदि । ता गदुअ णिवेदिअ परमत्थं आअच्छा । ( निष्क्रान्ते ) २०२ (नेपथ्ये *) (ग) भो ओसक्कह ओसक्कह एदं दावग्गिपडिज्जन्तं अञ्जणसेळसिहरं अम्बरादो णिवडइ । नायिका ---(सभयम्) (घ) अय्यउत्त! परित्ताआहि परित्ताआहि । (राजानमवलम्बते) राजा - भीरु ! मा भैषीः । ध्रुवमनेन पाराशर्यस्य भ्रमेण भवि- तव्यम् । नामनी वासोयुगले प्रेषिते । तद् वसायामेते । (क) जीवितास्मि तातस्य प्रसादेन । (ख) सखि! रम्भे ! जम्बूनदिकारूपेण राक्षसी गुरूणामपि किमपि करोति । तद् गत्वा निवेद्य परमार्थमागच्छावः । (ग) भो अपसर्पत अपसर्पत । एतद् दावाग्निप्रदीप्यमानमञ्जनशैलशिखरमम्व- रान्निपतति । (घ) आर्यपुत्र ! परित्रायस्व परित्रायस्व । ओसक्कह ओसक्कह अपसर्पत अपसर्पत । एतद् दावाग्निप्रदीप्यमानमञ्जन - शैलशिखरमम्बरान्निपततीति राक्षसीं दृष्ट्वा भ्रमेण विदूषकस्य वचनम् || १. 'का--जी' इति क घ. पाठः. २. 'ह्मि ।रा' इति क. ख-घ. पाठ:. ३. 'जा--भ' इति क.घ. पाठ.. ४, ‘थ्ये) ओ' इति क'ख-घ, पाठः,