पृष्ठम्:तपतीसंवरणम्.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठोऽङ्कः । नायिका ... (क) जं अय्यउत्तो आणवेदि । (सर्वे उपविशन्ति ) राजा --- प्रिये ! कथमिहं भागीरथ्यां तव देहोत्सर्गप्रसङ्गः । नायिका --- (ख) सुणादु अय्यउत्तो । अहं सहीए मेणआए रूवेण उवट्ठिदा राअन्धदाए विसुमरिअ पत्थुदं आळि- ङ्गिदुकामा ओहरिदा अय्यउत्तेण । मेनका --- (सलज्जं सरोषं च ) (ग) णं तुए मं ळहूँकरन्तीए सहिप्प - णयाणुरूवं किदं । १९९ राजा - (सशिर:कम्पम् ) एवमिदम् । ततस्ततः । - नायिका --- (घ) तदो किदमरणववसाआए पुणो वि सुमरिअसही- (क) यदार्यपुत्र आज्ञापयति । (ख) शृणोत्वार्यपुत्रः । अहं सख्या मेनकाया रूपेणोपस्थिता रागान्धतया वि- स्मृत्य प्रस्तुतमालिङ्गितुकामावधीरितार्यपुत्रेण । (ग) ननु त्वया मां लघूकुर्वत्या सखीप्रणयानुरूपं कृतम् । (घ) ततः कृतमरणव्यवसायायाः पुनरपि स्मृतसखीरूपाया गुरुकेणानुतापेन शृणोत्वार्यपुत्रः । अहं सख्या मेनकायाः रूपं गृहीत्वागता रागान्धतया विस्मृत्य प्रस्तुतम् आलिङ्गितुकामावधीरितार्यपुत्रेण । तच्छ्रुत्वा मेनका आत्मवेषेण दुर्विनयः कृत इति सलज्जमाह - ननु त्वया मां लघूकुर्वत्या सखीप्रणयानुरूपं कृतम् । मद्वेषेणाकृत्याचरणे मम लघुत्वं भवेत् | एतत् कृतं सखीस्नेहसदृशम् | नन्वित्यधिक्षेपः ॥ सशिरःकम्पमिति । पूर्वमात्मनो वितर्कस्योपत्तिसिद्ध्या शिरःकम्पनम् । एवमिदमिति । घटत इति शेषः । ततस्तत इति शेषबुभुत्सया प्रश्नः ॥ ततः कृतमरणव्यवसायायाः पुनरपि स्मृतसखीरूपायाः गुरुकेणानुतापेन १. 'किं तव भागीरथ्यां दे' इति घ. पाठः. २. 'व' इति ख. पाठ:. ३. 'हुक्कर' इति ४. 'णो सु' इति क ख घ. पाठः, फ. पाठः.