पृष्ठम्:तपतीसंवरणम्.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे (राजा तथा कुर्वन् परिक्रामति) (नेपथ्ये) (क) सहि ! मेणए ! महाराअं सहिं च विणा ण खणं पि सरीरं उव्वहामि । तो मम कण्ठे पास अप्पेहि । नायिका - हं । (पुनरपि नेपथ्ये ) (ख) सहि ! रम्भे ! तुज्झवि मरण मं सन्दावेइ । अहं एव्व पुव्वं विवज्जिस्सं । G नायिका – (ग) हद्धि सहीओ विवज्जन्ति । तुवरदु तुवरदु अ- य्यउत्तो । राजा--(ससम्भ्रममुपसर्पन्) मा साहसं कुरुतमत्रभवत्यौ । एतावावां ध्रियावहे। (निष्क्रम्य ताभ्यां सह प्रविश्य) प्रिये ! एते ते कुश- लिन्यौ सख्यौ । नायिका- (घ) सहीओ! दिढं मं परिस्सज्जह । (सबाष्पमन्योन्यं परिष्वजन्ते) 2010 राजा - तदिदानीं भवत्याः पद्धतिमुद्रिते ह्यमुष्मिन् मरतकशि- लातले मुहूर्त्त विश्रग्य गमिष्यामः । - (क) सखि ! मेनके ! महाराजं सखी च विना न क्षणमपि शरीरमुद्हामि । तन्मम कण्ठे पाशमर्पय । (ख) सखि ! रम्भे ! तवापि मरणं मां सन्तापयति । अहमेव पूर्व विपत्स्ये । (ग) हा धिक् सख्यौ विपद्येते । त्वरतां त्वरतामार्यपुत्रः । (घ) सख्यौ ! दृढं मां परिष्वजेथाम् । २. 'ता क' इति क. पाठ:. ३. 'नर्ने' इति क-ख. पाठः. १. 'करोति' इति घ. पाठ: ४. 'णंण दंसेमि' इति क. पाठः, क-घ. पाठः ६. 'सृत्य') इति ख. 'णं मं दंसेसि' इति ख. पाठः. ५. 'सत्वरमुपसृत्य’) इति पाठः ७. 'एत्थ दि' इति क-ख-घ. पाठः ८. 'तदा' इति क-ग-घ. पाठ.. ९. 'श्राम्यामः . ) इति क. पाठः, 'श्रभिष्यामः' इति ग. पाठः.