पृष्ठम्:तपतीसंवरणम्.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठोऽङ्कः । अलं वितर्केण । एषा मुञ्चति पुरा प्राणान् । अवलम्बे तावदेनाम् (सत्वरमवलम्बते) नायिका – (सरोषम् ) (क) को मं हत्थफरिसेण दूसेदि । राजो --- (निरूप्य) कथमियं देवी संवृत्ता। भगवति ! जाह्नवि ! सोऽयमतिप्रसादो, यदहमेवं प्रस्थितानंपि प्रत्यर्पयन्त्या प्राणान् प्राणितोऽस्मि । प्रिये ! मा शङ्केथाः । सोऽहमेव पातकिनामग्रेसरः संवरणः, यद्वियोगान्मरणं व्यवसित- वती । नायिका – (ख) हं अय्यउत्तो । जेदु अय्यउत्तो । (सप्रमोदं गाढं परिष्वज्य) अय्यउत्त! किं सिविणो आदु परमत्थो । राजा. • अहमप्यत्र सन्दिहे । तदुत्तीर्य तीरं विचारयावः । नायिकां--(कम्पं रूपयँन्ती) (ग) अय्यउत्त! वेवन्ति मे गत्ताणि । ता दिढं मं ओळम्बिअ गच्छ । (क) को मां हस्तस्पर्शेन दूषयति । (ख) हे आर्यपुत्रः । जयत्वार्यपुत्रः । आर्यपुत्र ! किं स्वप्न आहोस्वित् परमार्थः । (ग) आर्यपुत्र ! वेपन्ते मे गात्राणि । तद् दृढं मामवलम्ब्य गच्छ। गङ्गापयः कालुप्यं तटावपतनादिना शाबल्यम् । कमलाभिरामाम् । परिस्फु- रन्मीनविलोलनेत्रां परिस्फुरन्मीनवद् विलोलनेत्राम्, अन्यत्र परिस्फुरन्मीन- रूपविलोलनेत्राम् । अत्रात्मसमानरूपतया वात्सल्येन वहतीवेत्युत्प्रेक्षा व्य- ज्यते ॥ ८ ॥ एषा मुञ्चति पुरा प्राणानिति इदानीमेव मोक्ष्यति । ततः प्रागवलम्बे इत्यर्थः || ३. 'न्त्या प्राणि' १. 'जा क' इति ख. पाठ.. २. 'नपि प्राणान् प्र' इति क घ. पाठः. इति क. पाठः. 'न्त्या त्वया प्राणि' इति घ. पाठः ४. 'अह्मो अ' इति ख. पाठ: ५. 'त्तो । (स' इति ग. पाठः, ‘त्तो। (गा' इति क-ख-घ. पाठः ६. 'का --अ' इति ख. पाठः. ७. ‘यित्वा)’ इति घ. पाठः ८. 'न्ति विअ मे' इति घ. पाठः ९. 'णि । दि' इति क-ख-घ पाठः,