पृष्ठम्:तपतीसंवरणम्.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे (ततः प्रविशति गङ्गाजलैरुह्यमाना नायिका) नायिका ---(क) सहि ! मन्दाइणि ! उवरदं अय्यउत्तं सोदूण इह विवज्जिदुकामाए कीस मम कण्ठादो भारो तुए अव- णीदो | ता तुरिअं पाणेहि विहडि उवरदेण अय्यउत्तेण मं मेळावेहि । राजा-~-~- (शब्दानुसारेण विलोकयन्) कालुष्यभाजं कमलाभिरामां परिस्फुरन्मीनविलोलनेत्राम् । कां नु स्त्रियं जह्वसुता वहन्ती वहत्यसावात्मसमानरूपाम् ॥ ८ ॥ (क) सखि मन्दाकिनि ! उपरतमार्यपुत्रं श्रुत्वेह विपत्तकामया: कस्मान्मम क. ण्ठाद् भारस्त्वयापनीतः । तत् त्वरितं प्राणैर्विघटय्योपरतेनार्यपुत्रेण मां मेलय । मानेति । अवमज्जनाभावाय जलैरुपरि धार्यमाणा ॥ अत एवाधिक्षेपपूर्वं मन्दाकिनीं प्रार्थयते - सखि ! मन्दाकिनि ! उपरत- मार्यपुत्रं श्रुत्वेह् विपत्तुकामाया: कस्मान्मम कण्ठात् त्वया भारोऽपनीतः । उपरतं श्रुत्वेत्यनेन विपत्तेर्योग्यता । अत एव भारापनयनेन तन्निवारणं न युक्तम् । झटित्यवमजनाय कण्ठे शिलादिभारो बद्धः । “हार ” इति पाठेऽपि हारस्य गौरवेणावमज्जनार्थमेव बन्धनम् । तदपनयने साध्यविरोधात् खेदः । अतः प्रार्थयते – तत् त्वरितं प्राणैर्विघटय्योपरतेनार्यपुत्रेण मां मेलय संयोजयेति । "" - एतच्छब्दानुसारेण विलोकयन्नाह -- कालुष्य भाजमित्यादि । वहन्ती स्रवन्ती वहेरर्थान्तरवृत्या अकर्मकत्वम् । इयं जहूनुसुता कां नु स्त्रियं वहति धारयति । स्त्रियमिति ज्ञातुं शक्यम् । कामित्येव वितर्कः । आत्मस- मानरूपाम् । एतदवस्थाया गङ्गासाम्यं कल्प्यते । कालुष्यभाजं व्याकुलतायुक्तां १' 'अअ' इति ग, पाठः