पृष्ठम्:तपतीसंवरणम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठोऽङ्कः । भगवन् ! वैवस्वत ! कलत्रतां मे मिहिरात्मजात्व- मचिन्तयित्वा सहजन्मतां ते । आमृष्टमायुभवता मृगाक्ष्या मन्ये ततो मानसमायसं ते ॥ ७ ॥ कथमहमसुलोलुप इव केवलमश्रूणि मुञ्चामि । तदधुना •प्रायोपवेशनाय प्रक्रमिष्ये (प्रासादादवतरणं नाटयित्वा परिक्रामन् ) अमुना शुचिमणिबद्धसोपानेन तीर्थेनावतीर्य जाह्नवी- माप्लुततनुरारभे प्रस्तुतम् । (स्नानं नाटयति) - आज्ञाकरमिमं जनमपहाय क्व प्रयासि । आज्ञाकरमित्यनेन त्वत्साध्येषु कुत्रापि मम न प्रवृत्तिकुण्ठनं, तथापि परित्यज्य यासीत्यनुचितम् । एवं प्रलप्य यमं प्रति प्रलपति- - भगवन् ! वैवस्वत ! इति स्वोत्पत्तिनिरूपणेऽत्यन्त- मनुचितम् कृतम् । तत् प्रतिपादयति - कलत्रतामित्यादिना । मे धर्मैकशर- णस्य भार्यात्वम् । मिहिरात्मजात्वं पितृगौरवम् । ते सहजन्मतां सौभ्रात्रं चाचि- न्तयित्वा । तेषामेकैकस्य निरूपणे अनुचितं, किं पुनः सर्वेषाम्। मृगाक्ष्याः लोको- त्तररमणीयरूपायाः । आयुर्भवता आमृष्टम् आयुराश्रयाः प्राणा अपहृताः । ततस्ते मानसमायसं मन्ये, जडत्वेन काठिन्येन चायोमयत्वम् । उक्तप्रकारविमर्शराहित्येन जडत्वं तरुणीं प्रति करुणार्द्रताभावेन काठिन्यं च कथ्यते ॥ ७ ॥ कथमहमसु लोलुप इवेति । असुलोलुपः जीवनापेक्षी । तेषामेवाथुमोचनेन दुःखापनयनप्र- यासः । मुमूर्षुरहं तदुपायं पर्यालोचयामि । तीर्थेन अवतरणमार्गेण । तद्विशेषणं शुचिमणिबद्धसोपानेन स्फटिकमणिभिर्बद्धारोहणपटलेन । अनेनावतरणसौकर्यं प्रति- पादितम् || अथ राक्षसीमायावञ्चिताया नायिकाया देहत्यागप्रकारः - गङ्गाजलैरुह्य - १. ‘ते। (पतति। (प्रत्यागतः) क ' इति क -ख. पाठः २. 'यति । परिक्रम्य ) अ' इति क-घ.पाठः, 'यन्' इति ख. पाठ:. ३. 'पानती' इति ख' पाट:. ४. 'तथा करोति' इति ख-घ. पाट:.