पृष्ठम्:तपतीसंवरणम्.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे (ततः प्रविशति रम्भारूपधारिणी राक्षसी ) राक्षसी ---- (क) पुव्वं भिउणो कम्मप्पभावेण हिमगिळिकाणणे दुक्खळा मे माओ एदश्श ळाओपशदश्श वशे आशी। ता दाणिं एव्व एदश्श कुळक्खअं कळिश्शं । (उपसृत्य राज्ञः पादयोश्छिन्नपातं पतित्वा रोदिति) राजा ----(ससम्भ्रममुत्थाप्य ) सखि ! किमेवं मामाकुलयसि । आवेद्य- तां विषादहेतुः । - राक्षसी --- (सबाष्पगद्गदम्) (ख) पिअसही मे तवदी तादणिरोह - दुक्खरसङ्गमा तुह विरहाणळं असहन्ती अत्ताणं, अदो वरं ण पारेमि भणिदुं । अहं पि अत्ताणं वावादइस्सं । (निष्कान्ता) राजा ---- हा प्रिये ! (इति मूर्छितः पतति । चिरात् प्रत्यागत्य) हा दिवस- करोत्सङ्गलालिते! जनमिममाज्ञाकरमपहाय क्व प्रयासि । (क) पूर्वे भृगोः कर्मप्रभावेन हिमगिरिकानने दुष्करा मे माया एतस्य राजापश- दस्य वशे आसीत् । तदिदानीमेवैतस्य कुलक्षयं करिष्यामि । (ख) प्रियसखी मे तपती तातनिरोधदुष्करसङ्गमा तव विरहानलमसहमानात्मा- नम्, अतः परं न पारयामि भणितुम् । अहमप्यात्मानं व्यापादयिष्यामि । ततः मायाप्रयोगोद्यमेन . रम्भारूपधारिणी राक्षसी विमृशति -- पूर्वं भृगोः कर्मप्रभावेन हिमगिरिकानने दुष्करा मे माया एतस्य राजापशदस्य वशे आसीत् । दुष्करापि भृगोः कर्मप्रभावेनेमं व्यामोहयितुं न समर्थासीदित्यर्थः । तदिदानीमेव भृगुकर्मराहित्येनाशक्तस्यास्य कुलक्षयं करिष्यामीति निरूप्य च्छि- न्नवृक्षादिपतनवद् राजसमीपे पतित्वा रोदिति ॥ अथ राजा तस्या मायाप्रलापेन प्रेयसीविनाशमाकर्ण्य सहसा मोहमुपगतः, प्रबुद्धः प्रलपति – हा दिवसकरोत्सङ्गलालिते ! जन्मनः प्रभृत्यादरस्यैव पात्रभूता - १. ‘आ आशी ए' इति ग घ. पाठः, ३. 'पतति' इति क. पाठ:. ४. 'तः चि' इति क.घ. पाठः, २. अहदअश्श वशे । ता' इति ग घ. पाठः,