पृष्ठम्:तपतीसंवरणम्.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठोऽङ्कः । राजा--- ईदृश एवं स्त्रीस्वभावः । पश्य नैवाभिजात्यं न गुरून् न बन्धून् नातिप्ररूढं गणयन्ति सख्यम् । शक्यं च रोदुं ध्रुवमङ्गनाना- • मिच्छानुसारीणि न मानसानि ॥ ६ ॥ सा तु तपस्विनी स्वच्छहृदया पुंश्चलीमेनामज्ञानात प्रहि- तवती । विनोदनत्वेनाभिमता सेयमीदृशी संवृत्त । तदा- नीयतां कर्णपूरः । विदूषकः --- (क) एव्वं होदु। (निष्क्रान्तः) (क) एवं भवतु । इति तस्यानुपपत्तिं परिहरति ईदृश एवेत्यादि । स्त्रीस्वभावः सर्वत्रैवंरूप एव । पश्य विमृश । अहं बोधयामि । नैवेत्यादि । स्त्रीणां मानसानि इच्छानुसारीणि इच्छापरतन्त्राणि । यत्रेच्छा तत्रैव प्रवर्तन्ते । तत्रा- भिजन्मविरुद्धेच्छा चेत् कथं तदनुसारित्वम् अत्रांह---नैवाभिजात्यम् । आभि- जात्यं नैव गणयन्ति न निरूपयन्ति । निरूप्य परित्यागोऽपि नेत्येवशब्दः। न गुरून् । गणयन्तीति सर्वत्र योज्यम् । न बन्धून् न सम्बन्धिनः । अतिप्ररूढं सख्यं च न गणयन्ति । एवं स्वतन्त्रप्रवृत्तिरस्तु, प्रयत्नेन निरोधे नेच्छानुसरीणी- त्यत्राह --- रोधुं च न शक्यम् । इदं न कर्तव्यम् अत्र दोषाः सन्तीति निरोद्धुं च न शक्यानि । शक्यमित्यव्ययं “शक्यमञ्जलिभिः पातुं वाता” इतिवत् । अन्यथा गणयन्तीत्यत्र अङ्गनानामित्यस्य विपरिणामो वा ॥ ६॥ विनोदनत्वेनाभिमता (नि !)निजवृत्तान्तकथनेनात्मव्यसनापनयनसहकारिणीत्वेनाभिमता इयमीदृशी सं- वृत्ता । एतत् तिष्ठतु, कर्णपूर आनीयताम् । सन्तापविनोदनायेति शेषः ॥ - १. 'वः नै' इति ख. पाठ:. २. 'ती । से' इति ख. पाठः ३. 'त्ता | विनोदवत्वेनाभि- मतं त' इति ख. पाठः