पृष्ठम्:तपतीसंवरणम्.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९२ तपतीसंवरणे - राजा - (सक्रोधम् ) आः पापे ! किमनार्यमाचरसि' । नायमभिमत- दयितागुणनिगलितहृदयो जनस्तथौ मन्तव्यः, यथा त्वं तर्कयसि । नायिका --- (सरोषम्) (क) जुत्त एदं । तुमं अणुरूवाए देवीए सङ्गच्छिअ सेरं विहरेहि । अहं पुण अत्थाणबद्धसिणेहा अत्तणो अणुरूवं करिस्सं । (निष्क्रान्ता) विदूषकः --- (ख) भो वअस्स ! किं एसा रक्खसी । सा खु मेणआ सिविणे वि ण एव्वं कुणइ । (क) युक्तमेतत् । त्वमनुरूपया देव्या सङ्गम्य स्वैरं विहरस्व । अहं पुनरस्थान- बद्धस्नेहा आत्मनोऽनुरूपं करिष्यामि । (ख) भो वयस्य ! किमेषा राक्षसी । सा खलु मेनका स्वप्नेऽपि नैवं करोति । रतिरागरसप्रवाहः यस्मिन्। प्रवाहस्य सेतुशिलादिना प्रतिहतिर्दृश्यत इति प्रवाहस्या- विच्छेदाय विष्यन्दमानेत्युक्तम् । एवम्भूतमस्या आलोकितम् अलक्षितपूर्वम्, इदा- नीमेवैवं दृष्टम् । दूतीनां तद्वचनं घटताम् । सानुरागदृष्टिपातादिकं प्रियाया एव युज्यते न दूत्या इत्यनुपपत्तिः । एवं निरूप्य तामाह--- अलं स्वैरासिकासुखेनेति । स्वैरासिकासुखं तव गमनविलम्बहेतुः । मनस्त्वां त्वरयति ॥ एवमुक्ते सहसा जलदध्वनिश्रवणेन आर्यपुत्र ! गाढं मामालिङ्गेति प्रकृतं विस्मृत्य तस्या वचनं श्रुत्वा आः पापे ! का त्वमेवमनार्यमाचरसि । नाहमभिमत- दयितागुणनिगलितहृदयस्तथा मन्तव्यः, यथा त्वं तर्कयसि ॥ इत्युक्ते (मालिनिं ? ममालिङ्गनं) प्रत्यस्य वचनमिति निरूप्य कोपेनाह - युक्तमेतत् । त्वमनुरूपया देव्या सह विहरस्व । अहमस्थानबद्धस्नेहा अस्थाने अन्यथासक्तत्वेनानुचिते विषये बद्धस्नेहा । तत्सदृशमनुष्ठास्यामीति प्राणत्यागं हृदि निधाय निष्क्रान्ता || भो वयस्य! किमेषा राक्षसी । सा खलु मेनका स्वप्नेऽप्येवं न करोति ॥ १. 'सि । अभि' इति क. पाठः. २ 'योऽयं ज' इति क. पाठः, ३. 'था नावम' इति क. पाठः, ४. 'त्तं तव ए' इति क-घ. पाठ:. ५. 'दं । अ' इति क. पादः, ६. 'हंपिअ' इति क-ख-घ. पाठः.