पृष्ठम्:तपतीसंवरणम्.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठोऽङ्कः । १९१ नायिका - (राजानं सस्पृहमवलोकयन्ती) (क) महाराअ ! तुह दंस- णसुहं कञ्चित्काळं अणुभविअ गमिस्सं । राजा – (सवितर्कमात्मगतम्) - दूत्योचितं प्रियजने प्रतिवेदनीयं कामं सखीप्रणयपेशलमस्तु वाक्यम् । विष्यन्दमानरतिरागरसप्रवाह- मालोकितं पुनरलक्षितपूर्वमस्याः ॥ ५ ॥ (प्रकाशम्) अलं स्वैरासिकासुखेन । मम पर्युत्सुकं मन- स्त्वरयति भवतीं गमनाय | नायिका – (जलवरध्वनिं श्रुत्वा प्रस्तुतं विस्मरन्ती) (ख) हं भीदह्मि । अय्यउत्त! गाढं मं आळिङ्गेहि । (क) महाराज ! तब दर्शनसुखं कञ्चित् कालमनुभूय गमिष्यामि । (ख) हं भीतास्मि । आर्यपुत्र ! गाढं मामालिङ्ग । w एवमुक्ते प्रेम्णा प्रकृतं विस्मृत्य सानुराग (पू ?) दृष्टिपातपूर्वे महाराज ! तव दर्शनं कञ्चित् कालमनुभूय गमिष्यामीति तद्वचनमाकर्ण्य सवितर्कमाह - दूत्यो चितमित्यादि । प्रियतमाया दूतीत्वेनेयमागता । अस्या वचसि दृष्टिपाते च अन्यथात्वं दृश्यते । तत्र दूत्योचितं दूतभावोचितम् । दृतेन दूत्या वा कथनीय- मित्यर्थः । प्रियजने प्रतिवेदनीयं समर्पणीयं तत्प्रियजनस्य सन्देशरूपं वाक्यम् अस्यां वर्त्तमानम् । सखीप्रणयेन सख्यामस्याः प्रणयेन स्नेहेन तद्वन्मयोक्तेऽस्य विश्वासो भवेदिति पेशलं सुन्दरं तद्वचनवदनुरागमिलितमस्तु कामम् । एत- दनिच्छयाप्यनुमोदे । अत्र नातीवानुपपत्तिः । विष्यन्दमानरतिरागरसप्रवाहं रतौ भोगे रागः अभिलाषः स एव रसप्रवाहः, विष्यन्दमानः अविच्छिन्नप्रसरः १. 'णूसवसु' इति घ. पाठ:. २. 'दौ' इति क-ख. पाठः, ३. 'नि' इति ख.घ. पाठः ४. 'न। प' इति ख. पाठः, ५. ‘कं मे म' इति ख, पाठः ६. 'न्ती) भी' इति क-घ. पाठः,