पृष्ठम्:तपतीसंवरणम्.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे वसो णअरं पाविदो । ण किळ तादणिओअं विणा अत्ता दंसइदव्य'त्ति । MU राजा — सखे! सोऽपि सवितृसारथिः संवृत्तः । ततस्ततः । नायिका - (क) तदो तिस्से वुत्तन्तं विओअजणिअं च दुक्खं णिवेदिउं आअच्छन्तीए मए विट्ठी उवळक्खिआ । तदो देवो वि अणुजाणादि त्ति सम्पदं कुसळं ति मए भणिअं । विदूषकः - (ख) भो ! जाणिदा देवीमोसआ कुम्भीळा । राजां--- (निःश्वस्य) इदानीं नष्टः सन्देहः । सखि ! मेनके! नाहं क्षणमपि तां विना स्थातुमुत्सहे । तदभ्युपगमय्य देव- मानीयतां तव सखी । परवशो नगरं प्रापितः। न किल तातनियोगं विनात्मा दर्शयितव्य' इति । (क) ततस्तस्या वृत्तान्तं वियोगजनितं च दुःखं निवेदयितुमागच्छन्त्या मया वृ- ष्टिरुपलक्षिता। ततो देवोऽप्यनुजानातीति साम्प्रतं कुशलमिति मया भाणितम् । (ख) भो ज्ञाता देवीमोषकाः कुम्भीराः । दपरवशस्ते भर्त्ता नगरं प्रापितश्च । अतःपरं तातनियोगं विना आत्मा भर्तुर्न दर्शयितव्यः इयत्पर्यन्तं सावित्रीवचनम् || एवं कथामध्ये अशरीरवचनवद् अन्यथा निरूपितमन्यथा समर्थयति सोऽपि सवितृसारथिः संवृत्तः । इन्द्रसारथिरिति तेनोक्तम् । अपीति अस्मत्सिद्धेषु सर्वेषु विपर्ययो दृश्यत इति ॥ तत इत्यादि । देवोऽप्यनुजानातीति । अवृष्टिपीडाशमनार्थं पूर्व वियोज- नम् । तस्य सिद्धत्वाद् भर्त्तुसन्निधिगमनं प्रति देवोऽप्यनुजानातीति साम्प्रतं कुश- लमित्युक्तम् ॥ कुम्भीरस्तस्करः ।। इदानीं नष्टः सन्देह इति । पूर्व वियोगे कथमेवं जातमिति विकल्पः, इदानीं वस्तुवृत्तश्रवणान्नष्टः सन्देह इत्यर्थः । सखि ! मेनके इत्यादि । अभ्युपग- मय्य अङ्गीकार्य । देवस्यानुमतिं लब्ध्वेत्यर्थः । तव सखीति । त्वदधीनमेव तस्याः समानयनमिति भावः ॥ १. 'ततः' इति ख. पाठ: २'जा -इ' इति क. पाठ,