पृष्ठम्:तपतीसंवरणम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । • ". सूत्रधारः - (नेपथ्याभिमुखमवलोक्य) अये अयं मम शिष्यः शि- वदासो विदूषकभूमिकामादायेत एवाभिवर्त्तते । श्रान्ता च - त्वम् । अहमपि शिष्यगुणसङ्क्रान्तमात्मप्रयोगप्रतिबिम्बं द्रष्टुं कुतूहली । तदावां प्रेक्षकौ भवावः । अपि च - - तनयसमुद्भवहेतोरमुतो नियमान्निवर्त्ततासि मया । संवरणेन यथेयं साल्वसुता सार्वभौमेन ॥ ३ ॥ ( इति निष्क्रान्तौ ) स्थापना | दुराशयेति फलादर्शनेनालभ्यत्वबुद्ध्या वैराग्येण दुराशयेति कथनम् । आत्मनो- अधिकारः गानपात्रप्रवेशादिः ॥ अथ प्रयोगातिशयेन सूच्यसूचनेनोपसंहाराय अनन्तरोचितपात्रभूमिकाव- लम्बिनं शिष्यमालोक्याह – अये इत्यादि । उचितकाले अविलम्बितं प्रयोगार- म्भेण प्रहर्षः । मम शिष्य इति वात्सल्यं सूचितम् । विदूषकभूमिकामादायेत एवा- भिवर्त्तते राज्ञो नर्मसचिवस्य वेषमवलम्ब्य यवनिकान्तरमलङ्करोति । अतः प्रयो- गस्यारब्धत्वाद् आवां सामाजिकवत् प्रेक्षकौ भवावः । कथं प्रयोक्तॄणां प्रेक्षकत्वाङ्गी- कार इत्यत्र हेतुमाह -- त्वं श्रान्ता । श्रान्तिः प्रस्तुतेन नियमक्लेशादिना । अहं निजप्रयोगप्रतिबिम्बमालोकायतुं कुतूहली चेति शिष्यजनसंक्रान्तं चतुर्विधाभिनय- शिक्षया निर्मले मुकुरे मुखादिप्रतिबिम्बमिव एकरूपतया परिस्फुटमात्मप्रयोगस्य प्रतिबिम्बमालोकयितुं तत्प्रयोगचातुर्यमनुभवितुं परीक्षितुं चौत्सुक्यवान् । दार्ष्टन्तिक- त्वेन प्रस्तुतं स्वार्थं घटयति — तनयेत्यादि । अमुतः नियमात् त्वया प्रस्तुतात् फलाभावनिश्चयेन केवलं क्लेशावहात् । अतः दुराशयेति त्वया वैराग्यप्रकाशनाच्च मया निवर्त्तिता | अतः परं न क्लेशः सोढव्यः । पुत्रोत्पत्त्युपायस्त्वयैव सूत्रितः । अतस्तूष्णीमास्स्व । अस्मद्वृत्तान्तस्य सब्रह्मचारी अयं महाराजः संवरणः, अनेन