पृष्ठम्:तपतीसंवरणम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपती संवरणे तस्य राज्ञः केरलकुलचूडामणेर्महोदयपुरपरमेश्वरस्य श्री- कुलशेखरवर्मणः कृतिरियमधुना प्रयोगविषयमवतरति । नटी – (क) अय्य! अणवच्चस्स अवच्चुप्पत्तिणिबन्धणेण तुज्झ परिणयणन्तरभुदएण जणिदो पमोदो इमिणा अय्यमि स्ससासणेण विउणिओ। सूत्रधारः - आयें! तत् प्रस्तूयतां सङ्गीतकम् । नटी - (खेदमभिनीय) (ख) अय्य! एतिअं काळं णिअमकिळेसिअ सरीरा तणअदुरासाए ण पारेमि अत्तणो अहिआरं कादुः । (क) आर्य! अनपत्यस्यापत्योत्पत्ति निबन्धनेन तव परिणयनान्तराभ्युदयेन जनितः प्रमोदोऽनेनार्यमिश्रशासनेन द्विगुणितः । (ख) आर्य! एतावन्तं कालं नियमक्लेशितशरीरा तनयदुराशया न पारयाम्या- त्मनोऽधिकारं कर्तुम् । तस्येति, यस्य मुखकमलाद् आश्चर्यमञ्जरीकथामधुद्रवः अगलत् अपि च यस्य वपुः प्रजानामार्त्तिहरं तस्य कृतिरियम् अधुना प्रयोगविषयमवतरतीति महावाक्य- सम्बन्धः । राज्ञ इत्याधिराज्यस्थितिः प्रकाशिता । केरलेत्यादिना वंशोन्नतिकर- त्वम् । महोदयपुरेत्यादिना दुर्गवैशिष्ट्यम् । श्रीकुलशेखरवर्मण इति प्रसिद्धनामधेय- कथनम् । कृतिरियं प्रस्तुता । अधुना सामाजिकनियोगानन्तरम् । प्रयोगविषयमव- तरति प्रयोगविषयमिति क्रियाविशेषणं प्रयोगस्य विषयो यथा भवति तथा अवतरति प्रसरति इदमिदानीं प्रयोज्यमित्यर्थः । अतः शूद्रकादिप्रणीतमेव सामा- जिकानां कौतुकावहमिति बुद्धिं मा कृथाः ॥ एवं कविगौरवश्रवणेन प्रीयमाणा सूच्यानुगुणं स्वार्थी प्रस्तौति - अणव- चस्स इत्यादिना । अपत्योत्पत्तिनिबन्धनेन अपत्योत्पत्तिनिमित्तेन ॥ एवं तदङ्गीकारमालक्ष्य प्रयोगोपक्रमाय प्रोत्साहयति-तत् प्रस्तूयतामिति । तदिति सामाजिकनियोगस्यादरणीयत्वात् महाकविप्रबन्धस्य प्रयोगयोग्यत्वात् तवा - स्मिन् प्रीतिप्रकर्षाच्च नृत्तवादित्रगीतरूपं सङ्गीतकमारभ्यतां त्वदधिकारोचितं प्रव- र्त्तस्व अन्यानपि नियोजयं ॥ इत्युक्ते अनपत्यतया पुत्रार्थं व्रतोपवासादिकमाचरन्त्याः राजभार्यायाः परि- 'क्लेशसूचनानुगुणं खेदाभिनयपूर्वं स्वार्थं निर्दिशति- एत्तिअं काळमिति । तनय-