पृष्ठम्:तपतीसंवरणम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । पटलपवित्रकृतमुकुटतटस्य वसुधाविबुधधनायान्धकार- मिहिरायमाणकरकमलस्य मुखकमलादगलद् आश्चर्य- 'मञ्जरीकथामधुद्रवः । अपि च- उत्तुङ्गघोणमुरुकन्धरमुन्नतांस- मंसावलम्बिमणिकर्णिककर्णपाशम् । आजानुलम्बिभुजमञ्चितकाञ्चनाभ- मायामि यस्य वपुरार्त्तिहरं प्रजानाम् ॥ २ ॥ प्रतिभाया अयत्नप्रसरः प्रकाशितः । अनेन पूर्वमेव प्रबन्धनिर्माणस्याभ्यासः स्पष्टी- कृतः । परमहंसेत्यादिना महत्सेवया चित्तसंस्कारः प्रतिपाद्यते । यतीन्द्राणां पादप- केरुहपांसुपटलेन नमस्कारसंक्रान्तेन पवित्रीकृतं मुकुटतटं यस्य । अत्र राजला- ञ्छनस्यापि मुकुटस्य परमयतिपादपांसुसम्बन्धेनैव शुद्धिरिति तद्बुद्धिकल्पनाच्चि- त्तशुद्धेरप्युपलक्षणमेतत् । अन्यथा मुकुटमात्रपवित्रीकरणेन किं प्रयोजनम् । एवं सत्सेवामुक्ता वदान्यत्वं प्रकाशयति - वसुधेत्यादिना | वसुधाविबुधानां भूसुराणां ब्राह्मणोत्तमानाम् इष्टापूर्त्ताद्यपेक्षया या धनाया धनश्रद्धा सैवान्धकारः व्यामोहक- रत्वेन, तं प्रति मिहिरायमाणं झटित्येव निरसनात् करकमलं यस्य । अत्र मिहि- रायमाणस्येत्यौपम्यात् पूर्वत्रापि सादृश्यं युक्तम् । एवं धनस्य सत्पात्रप्रतिपत्तिं सम- र्थ्य गुणान्तरवचनाय द्वारमुद्घाटयति- अपि चेति । इतोऽप्यधिकं श्रूयतामित्यर्थः उत्तुङ्गेत्यादि । यस्य वपुः प्रजानामार्त्तिहरं दर्शनसन्निधानादिना प्रजानां सर्वपीडा- - विनाशकरम् । तत्र हेतुं विशेषणद्वारा प्रकटयति - उत्तुङ्गेत्यादि । घोणस्योत्तुङ्गत्वं महापुरुषलक्षणं ‘महोष्ठहनुनास' इत्यत्र प्रकाशितम् । कन्धराया उरुत्वं 'दशबृहद् ' इत्यत्र प्रकाशितम् । अंसस्योन्नतत्वं सर्वत्र प्रसिद्धम् । अंसावलम्बिनी मणिमयी कर्णिका अलङ्कारो यस्मिन् तादृशः कर्णपाशो यस्येति बहुव्रीहिगर्भो बहुव्रीहिः । आजानुलम्बिभुजं जानुनी अभिव्याव्य लम्बमानभुजम् । अभिविधावाङ् । अञ्चितं शुद्धं यत् काञ्चनं तस्येव आभा यस्य तप्तसुवर्णवर्णमित्यर्थः । आयामि चतुर्हस्त- प्रमाणम् । लक्षणान्तरोपलक्षणमेतत् । अङ्गोपाङ्गप्रत्यङ्गेषु सामुद्रादिशास्त्रोक्तमहापु- रुषलक्षणसम्पूर्णम् । कियद्वा पृथगुच्यताम् । अत एवार्त्तिहरत्वं सम्भवति । अत्र “यत्राकृतिस्तत्र गुणा वसन्ति" इत्याकृतिसौष्ठवेन सर्वे गुणाः प्रकटिताः ॥ २ ॥