पृष्ठम्:तपतीसंवरणम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे नवरसानि प्रयोगामृतान्तराणि वयं पाययितव्या इति । नटी - (क) अय्य! सुद्दअकाळिदासहरिसदण्डिप्पमुहाणं महाकई- णं अण्णदमस्य कस्स कविणो इदं णिबन्धणं, जेण अ- य्यमिस्साणं एत्तिअं कोदुअं वड्ढावेइ । सूत्रधारः – आयें ! मा मैवैम् । यस्य परमहंसपादपङ्केरुहपांसु (क) आर्य! शूद्रककाळिदासहर्षदण्डि प्रमुखाणां महाकवीनामन्यतमस्य कस्य क वेरिदं निबन्धनं, येनार्यमिश्राणामेतावत्कौतुकं वर्धयति । णस्यौचित्यम् । नाटकम् इत्यनेन रूपकविशेषश्च प्रकाशितः । प्रयोगामृतान्तराणि अतिसम्बद्धचतुर्विधाभिनयप्रयोगरूपाणि अमृतान्तराणि अमृतविशेषान् वयं पा ययितव्याः । प्रयोगस्य हृद्यतया अमृतत्वारोपः तच्छेषतया पेयत्वम् । अत्र विशे-- षवाचिना अन्तरशब्देन पूर्वामृताद् व्यतिरेकः सूचितः । तं प्रकाशयति - नवर- सानीति अमृतविशेषणम् । अत्र प्रयोगामृतस्य नायकेतिवृत्ताश्रयत्वाद् अङ्गाङ्गिभा- वेन नव रसाः सन्ति । तेषां खलु प्राधान्येनाभिनेयत्वम् । पुराणस्यामृतस्य एकर- सत्वमेवेति विशेषः । अस्मिन् नाटके परमानन्दकन्दभूते नवरसाभिनयेन भवता वयं प्रीणनीया इत्यर्थः ।। इति सामाजिकनियोगं श्रुत्वा एकदेशस्य सिद्धवदङ्गीकारेण सा पृच्छति- शुद्रकेति । शूद्रकादीनामन्यतमस्य कस्य कवेरिदं निबन्धनम् । तेषामन्यतमस्येति सिद्धम् । तेषु कस्य इत्येव जिज्ञासा । कथं निश्चय इति चेत् तत्राह — येनेति । तेष्वन्यतमत्वेनैवेदं निबन्धनम् आर्यमिश्राणामियत् कौतुकं 'प्रयोगामृतान्तराणि वयं पाययितव्या' इति प्रार्थनावहं वर्द्धयति । तेष्वन्यतमस्यैव निबन्धन एवं कौतुक- योग्यत्वमिति भावः ॥ - इति तदुक्तिमसहमान आह -- मा मैवमिति । वादीरित शेषः । पुरा- तनकविनिबन्धनस्यैव सहृदय कौतुकावहत्वम् इति दृढप्रत्ययं मा कृथा इति तदु- क्तिमाक्षिप्य कविप्रशंसनायारभते – यस्येत्यादि । यस्य मुखकमलादाश्चर्यमञ्जरीक- थामधुंद्रवः अगलद् आश्चर्यमञ्जरीनामधेया कथा गद्यकाव्यभेदः सैव मधुद्रवः । मुखस्य कमलत्वारोपशेषतया कथायां मधुद्रवत्वारोपो रसप्रचुरतया । अगलदिति १. "णं अण्ण' इति क. पाठः, २.. 'घम् । श्रूयतां य' इति क. पाठः