पृष्ठम्:तपतीसंवरणम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । (विचिन्त्य) अलं प्रविस्तरेण । अधुनातनमभ्युदयप्रमोदातिभारमात्म- कुटुम्बिन्यै संविभजामि (परिक्रम्य नेपथ्याभिमुखनवलोक्य) आर्ये ! इत स्तावत् । ( प्रविश्य ) नटी - (क) अय्य! इअह्नि । - सूत्रधारः - आर्ये! अद्याहमार्यमिश्रैराज्ञप्तः यथा—भवता तावद् अपूर्वेऽस्मिन्नादिराजकथासनाथे तपतीसंवरणनाम्नि नाटके आर्य ! इयमस्मि । , एवमाशिषं प्रयुज्य सूच्यसूचनप्रस्तावाय समापयति-अलमिति । वर्णनी- यस्य गौरवेणास्माकं भक्त्या च पुनः पुनर्वर्णयितुमेव युक्तम् । अस्माकमन्यत्र संरम्भाद् इयतैवाभीष्टस्योक्तत्वाच्च प्रचुरप्रशंसनस्य नायं काल इति भावः । कुत्र पुनरुद्यम इत्यत्राह-अधुनातनमिति । अधुनातनमित्यनेनापेक्षितकालसिद्ध्या औत्सु- क्यं प्रतिपादितम् । अभ्युदयप्रमोदातिभारम् अभ्युदयनिमित्तप्रमोदरूपमतिभारम् । अभ्युदयः वक्ष्यमाणो हृदयस्थापितः सामाजिकाज्ञालाभः, तस्य प्रयोगेण ख्या- तिलाभपूजाहेतुत्वात् प्रमोदः, तस्य प्राचुर्येणातिभारत्वमारोपितं, तम् आत्मकु- टुम्बिन्यै संविभजामि । आत्मशब्देन गुणवत्तया कुटुम्बिन्यां पक्षपातातिशयः प्रकाश्यते । अत एव संविभागयोग्यत्वम् । लोके दुर्भरस्य भारस्य इष्टजनविभ- जने वोढव्यत्वं दृष्टम् । तत एवमुक्तिः । ततश्चेष्टतया आह्वानम् । आर्ये! इति अ- न्योन्यसमुदाचारप्रकारः । इतस्तावदिति तस्याः स्वाधीनतातिशयेन शेषानिर्देशः । •अर्भाष्टस्य नोच्चैः कथनीयत्वमितीतस्तावदित्युक्तम् || झटिति समागतां तामाह -- अद्येति । अद्य विश्रान्त प्रयोगैरस्माभिरपेक्षिते काले । आर्यमिश्रैः सामाजिकैः, न तु तन्नियुक्तेनान्येन । आज्ञतः सादरं नियुक्तः । भवतेत्यादि इतीत्यन्तं नियोगप्रकारः । भवता नटवर्गपूज्येन । तावत् प्रथमं, पुनः प्रयोगान्तरनिरूपणम् । अपूर्वे नूतने तेन च रुचिहेतुत्वम् । आदिराजस्य संवर- णाख्यस्य कथया इतिवृत्तेन सनाथे वैशिष्ट्यं प्रापिते । अनेन तस्य नायकत्वं तञ्चरितस्याधिकारिकत्वं च प्रकाशितम् । तपतीसंवरणनाम्नीति प्रबन्धनामकर- १. पदमिदं ख ग घ पुस्तकेषु न दृश्यते.