पृष्ठम्:तपतीसंवरणम्.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे नायिका – (क) दिद्विआ दाणिं समस्ससिद्धि । (उपसृत्य) जेदु महाराओ। राजा - स्वागतं सख्यै । (गाढ स्पर्शं रूपयन्नात्मगतम्) आश्लेषेष्विव देव्याः कण्टकितेयं मुधा तनुः कस्मात् । अस्यां तस्याः स्पर्शः शङ्के संश्लेषसङ्क्रान्तः ॥ ४ ॥ (प्रकाशम् ) सखि मेनके ! अपि कुशलमस्मदसूनाम् । (क) दिष्ट्येदानीं समाश्वसितास्मि । जयतु महाराजः । एवमुक्ते तस्या विषादोपशमः । अत एवाह -- दिष्ट्येदानीं समाश्व- (स्ता ? सिता) स्मीति । जयतु महाराज इत्युक्तिः वेषानुगुण्येन || - स्वागतं सख्यै इति सखीबुद्ध्या वचनं गाढमालिङ्गनं च । तत्र "मनो हि जात्यन्तरसङ्गतिज्ञम् " इत्युक्तवद् अन्तःकरणस्य प्रियतमास्पर्शा- नुभवे स्वतः सिद्धे स्पर्शप्रकारं निरूप्य स्वयमेव विकल्पयति - आश्लेषेष्वि- त्यादि । देव्या आश्लेषेषु यदायदाश्लेषः तदातदानेकवारं परिपूर्णतादृष्टा । एतदालिङ्गनेऽपि इयं तद्वत् कण्टकिता । देव्याश्लेषनिमित्तमन्याश्लेषे न घ- टते तादृशस्य स्पर्शान्तरस्याभावात् । तर्हि देवीसमाश्लेष इति वक्तुमपि न शक्यम् अस्यास्तत्सखीत्वात् । अतः मुधा निमित्तं विना । कारणं विना कार्यस्यानुदयात् तत्रापि शङ्कते–कस्मादिति । कस्मादेवं जातं कारणस्यानुदयः कार्यस्य परिस्फु टत्वं चेति । अत्राहमेवं वितर्कयामि | देवीस्पर्शं विना तनोः कण्टकितत्वं न घटते । अस्याः स्पर्शे कण्टकिता च । अतस्तस्याः स्पर्शोऽस्यां संश्लेषेण शयनास- नादिषु देहसम्मेलनेन सङ्क्रान्तः । एतदङ्गलमस्तत्स्पर्श आश्लेषे तनुं कण्टकयति । यथा समुद्गकादिषु मृगमदसंश्लेषेण वासितत्वात् तदभावेऽप्यामोदसम्बन्धः तदाघ्रा- तुर्मृगमदानुभूतिश्च, एवमिहापि घटते || ४ || एवं निरूप्य तां प्रियावृत्तान्तं पृच्छति---अपि कुशलमस्मदसूनामिति । अस्मदसूनामित्युक्ते एतद्वियोगे असु- विरहित इवाहं यथाकथञ्चिज्जीवामि जीवकार्यहीनत्वादिति प्रकाशितम् ॥ । १. 'मालिङ्गय' इति क-घ- पाठः. २. 'निरूप्यात्म' इति क. पाठः, 'निरूप्य स्वगतम् इति घ. पाठः.