पृष्ठम्:तपतीसंवरणम्.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठोऽङ्कः । राजा – क्वासौ क्वासौ । नायिका – (सविषादम्) (क) हं जाणिदह्मि । विदूषकः -- (ख) दक्ख एसा मेणआरूवेण सम्पत्ता | - नायिका - (सविषादम्) (ग) अवस्सं जाणिदह्मि । सव्वहा अव- रज्झझि तादस्स । राजा - (विलोक्य) अये सखी मेनका सम्प्राप्ता । सखे ! कथमेनां मे प्रियां व्यपदिशसि । विदूषकः - (घ) एसा तिस्से सरीरहूदत्ति एव्वं मए भणिदं । (क) हं ज्ञातास्मि । (ख) पश्यैषा मेनकारूपेण सम्प्राप्ता । (ग) अवश्यं ज्ञातास्मि । सर्वथा अपराद्धास्मि तातस्य । (घ) एषा तस्याः शरीरभूतेत्येवं मया भणितम् । क्वासौ क्वासौ इति नायकस्यौत्सुक्यम् || ज्ञातास्मीति तस्या विषादः ॥ B पश्यैषा मेनकारूपेण सम्प्राप्तेति तस्योपचारकथनम् || तत्र वेषान्तरपरिग्रहोऽप्यनेन ज्ञात इति विषादत आह अवश्यं ज्ञा- तास्मीति । रूपपरिवर्त्तनस्यापि ज्ञातत्वादवश्यमित्युक्तम् । तेन दोषमाह - सर्वथा- पराद्धास्मि तातस्य, तातं प्रतीत्यर्थः ॥ अथ नायकस्तामवलोक्य मेनकाबुद्ध्याह – अये मेनका सम्प्राप्ता । सखे ! कथमेनां मम प्रियां व्यपदिशसीति निश्चयः नेयं सेति, व्यपदेशस्य किन्निमित्तमिति विचारः ॥ एषा तस्याः शरीरभूतातिसंश्लेषणेन स्वशरीरवदस्यां तस्या ऐक्यभा- वनेति मयोपचरितम् ॥ १. 'का-- हं' इति क ख घ. पाठः. २. 'सविमर्शम्' इति क-ग. पाठ.. ३. 'द्ध' इति क-ख. पाठः, ४. 'मन्तिदं' इति ख-ग, पाउँ