पृष्ठम्:तपतीसंवरणम्.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८६ तपतीसंवरणे एत्तिएर्ण वि तादसासणं ण ळङ्घिअं होइ । ता अय्यउ त्तदंसणूसवं अणुभविस्सं । (परिक्रम्याधो विलोकयन्ती सानन्दम् ) एसो सो वअस्सेण सह पासादग्गभूमीअं णिसण्णो | ता ओदरिस्सं दाव । (अवतरणं नाटयति) विदूषक:~- (विलोक्य) (क) एसा तत्तहोदी तवदी सम्पत्ता | इयत।पि तातशासनं न लङ्घितं भवति । तदार्यपुत्रदर्शनोत्सवमनुभविष्या- मि । एष स वयस्येन सह प्रासादाग्रभूम्यां निषण्णः । तदवतरिष्यामि तावत् । (क) एषा तत्रभवती तपती सम्प्राप्ता । गमे सिद्धेऽपि मन्दभाग्यतया दूरीभूता 'स्वशरीरं मन्नियोगं विना भर्त्तुर्न दर्शयित- व्यमि'ति तातेन निरुद्धा च ( असहमाना ?) विश्लेषमसहमाना तूष्णीं स्थातुम- शक्ता सखीरूपमवलम्ब्यार्यपुत्रं दृष्ट्वाश्वसिमि । दृष्टेत्यनेन स्पर्शाद्यभावेन खेदो व्यज्यते । तद्रूपामृतपानेन नयनप्रीतिमपि तावत् करोमीति मत्वा सख्यौ वञ्चयित्वा ताभ्यामदृष्टेत्यर्थः । वञ्चयित्वेत्यनेन तद्वञ्चनेऽनौचित्यमपि स्फुरति । आगतास्मि प्रियसन्निधिमिति शेषः । अत्रौत्सुक्यं व्यज्यते । अत्र तातशासनं ल- ङ्घितं किं न भवेदिति शङ्कां निरस्यति - इयतापीति । आत्मा न दर्शयितव्य इत्युक्ते किमनेनावगुण्ठनवासस्तुल्येन वेषान्तरपरिग्रहेण । अनेन प्रायः आत्मदर्श- नमेव क्रियत इति शङ्कां परास्यति - इयता एतावन्मात्रेण वेषान्तरपरिग्रहेण अ- तीव नसत्यरूपेण यद्यपि यथाकथञ्चित् तातशासनं न लङ्घितं भवति स्वरू पाप्रकाशनादित्यभिप्रायः । एवं साध्यं निश्चित्याम्बरादवलोकयन्ती सानन्द- माह - एष वयस्येन सह न त्वमात्यादिभिः । प्रासादाग्रभूम्यां नतु राजसभायाम् । निषण्णः न तु कार्यान्तरजागरूकः । अनेनावतरणदर्शनयोः सौकर्येण कृतार्थता व्यज्यते । अत एवोक्तं तदवतरिष्यामि तावदिति ॥ - अथ नर्मसचिवः सहसा तां दृष्टा वस्तुवृत्तमजानन्नपि प्रौढवादेनोभयोर्भा- वान्तरमुद्भावयति — एषा तत्रभवती तपती सम्प्राप्ता इति ॥ १. ‘ण ता' इति घ. पाठः, ३. 'णं पिण' इति ग. पाठ: ३. 'वणीअं' इति क. पाठः, ४. 'क:-(सहर्षम्) ए' इति ख-ग, पाठः,