पृष्ठम्:तपतीसंवरणम्.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निश्शेषं वनमल्लिकासुमनसां शेषः समुच्छिद्यते वृन्तेभ्यः पथिकोपरोध परुषैः पौरस्त्यवातैरयम् । प्रांशुकृत्य पिबन्त्यमा सहचरैः कण्ठप्रणालीरिमा- श्चातक्यो हिमशर्कराशकलिनीमारम्भधारावलिम् ॥ ३ ॥ तत् किमिदानी मे शरणम् । (ततः प्रविशति मेनकारूपधारिणी नायिका) नायिका- ( सविमर्शं दीर्घ निःश्वस्य) (क) अहं हि सहीरूवेण अय्य उत्तं दक्खिअ अस्सासेमि त्ति सहीओ वञ्चिअ आअदङ्मि । ç (क) अहं हि सखीरूपेणार्यपुत्रं दृष्ट्वाश्वसिमीति सख्यौ वञ्चयित्वागतास्मि । निश्शेषमित्यादि । वनमल्लिकासुमनसां ग्रीष्मोद्भवानाम् । शेषः कालपरिणत्या गत- प्रायः । निश्शेषं साकल्येन वृन्तेभ्यः समुच्छिद्यते । पौरस्त्यवातैः प्रावृषेण्यैः । अयमित्यग्रे दर्शयित्वोक्तिः । तेन किं विरहिभयङ्करत्वं कालस्य | पथिकोपरो- धकलुषैः विरहिणां पीडनेन क्रूरव्यापारैः । अत एव विजृम्भणोद्यतस्य वियोगहुत- वहस्योद्दीपकत्वं भवेत् । इमाश्चातक्यः | कण्ठप्रणाली: प्रांशुकृत्य पिपासोदयेन कण्ठ (ना)लानि दीर्घीकृत्य । सहचरैः सह । आरम्भधारावलिं वर्षारम्भधारावलिं चञ्चूपुटमुत्तानीकृत्य पिबन्ति | हिमशर्कराशकलिनीमित्यारम्भधारावलिलक्षणम् । हिमशर्कराशकलानि वर्षोपलशकलानि तद्वतीम् अतिशैत्येन हृद्यां पिबन्ति । अत्र सहचरसहितानां चातकीनामिष्टभोगप्रवृत्तिदर्शनाद् अहो अस्माकम् एवं न भाग्योदय इति सन्तापो भवेत् । अतश्च भयङ्करत्वम् || ३ || तत् किमिदानीं मे शरणं किं सन्तापशमनालम्बनमित्यर्थः ॥ अथ विरहमसहमानाया नायिकाया: प्रवृत्तिप्रकार: स्ववचनेनैव प्रतिपा- द्यते । सन्तापेन चिन्तया च दीर्घनिःश्वासः । अहं सखीरूपेणार्यपुत्रं प्रेक्ष्या- श्वसिमीति सख्यौ वञ्चयित्वागतास्मि । अहमिति अतिप्रयत्नेन प्रियतमसमा- १. 'षं' इति क. पाठ:. २. 'रिदम्' इति क. पाठ:. ३. 'लीम् 'इति क ख. पाठः. '४. ‘का---अ' इति क. पाठः, 'का--(सचिन्तं निः' इति ख-घ. पाठः, ५. 'ण वि अ' इति ग-घ, पाठः, ६. 'अ अत्ताणं अस्सा' इति घ. पाठः