पृष्ठम्:तपतीसंवरणम्.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे विदूषकः ---(क) भो अप्पज्जो सो अमच्चो, जेण तुवं सअळमुव णेक्कणाहो मेहदोहणत्थं वच्छो सम्पादिओ। राजा - अलं परिहासेन । पञ्चालकोपस्तम्भितप्रसरो वियोगहुत- • वहो विशृङ्खलमधुना विजृम्भितुं प्रक्रमते । प्रवृत्तश्चायं विरहिणामतिभयङ्करः कालः । पश्य— (क) भो अप्रज्ञः सोऽमात्यः, येन त्वं सकलभुवनेकनाथो मेघदोहनार्थं वत्सः स म्पादितः । नाद् इयमशरीरिणी वागित्यस्माकं बुद्धिमुद्भाव्यत्यर्थः । पश्चात् सम्मोहादपवा- हितोऽस्मि यत् सम्मोहनिमग्नो झटित्युद्धृतः 'मम मतिबलमतिक्रम्य ते प्रवृत्ता अन्यैर्नृपतिभिः सहे'त्यायुक्तिभिः । एवमवस्थानिवेदनमेव न पूर्यतां तेषामभिलाष इत्यादिना यियासामुद्भाव्य पुरं प्रापितः । यद्वा सोऽयं तदानीमारभ्यन्तं काल-

मविच्छिन्न उत्साह एतदर्थं किल । अतःसचिवमनोवृत्तीनां दुर्विज्ञेयत्वमे वेति ॥२॥ तद्वचनं श्रुत्वा नर्मसचिव आह - अप्रज्ञः सोऽमात्यः आवयोः सिद्धा- न्तोऽतीव विरुद्धः । तस्य बुद्धिमत्त्वं भवता साधितम् । तेनैव मया मौढ्यं सा- ध्यते । मेघदोहनार्थं तेनोपायैर्भवानानीत इत्युक्तम् । तत्र भवत्प्रयत्नस्याल्पत्वनि- रूपणेनैवं स्फुरति - तेन मेघदोहनार्थ स्वयं दोग्धृत्वमवलम्ब्य सकलभुवननाथ- • स्त्वं वत्सः सम्पादितः । वत्सस्य पयश्चलनमात्रमेव कृत्यं, क्षारणं दोग्धुः कर्म । एवमधिकारविशेषापरिज्ञानादयं मूढ इति मामकः पक्षः ॥ अलं परिहासेनेति नायं क्रीडालापस्य कालः । यतः वियोगहुतवहः प्रि- यतमावियोगसन्तापाग्निः । पञ्चालकोपेन स्तम्भितप्रसरः निरुद्धप्रसरः, नतु निर्वाणः । स्तम्भितत्वेन पुनः प्रसरणेऽसह्यत्वं प्रकाशितम् । अत एवोक्तम् अधुना विशृङ्गलं

विजृम्भितुं प्रक्रमत इति । अधुना कोपे शान्ते विच्छिन्न सेतुर्जलप्रवाह इव निष्प्र- तन्धं कर्तुमारभते । सहकारिसामग्रयेणास्य प्राबल्यमेवेत्याह - प्रवृत्तश्चायमिति । विरहिणामतिभयङ्करः कालान्तराद् भीतिजनकः । वर्षारम्भस्य प्रकरणसिद्धत्वादय- मित्येवोक्तम् । अयं प्रावृट्काल इत्यर्थः । कालस्वरूपं कार्येण प्रतिपादयति - -- १. 'पणा' इति क. पाठ.. २. 'तथाहि' इति ग. पाठ: 'कुत' इति ख. पाठ.. -