पृष्ठम्:तपतीसंवरणम्.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठोडङ्क (ततः प्रविशति राजा विदूषकश्च) राजा - अहो ! निसर्गनिष्णातमतिभिरपि दुरवबोधाः सचिवानां मनोवृत्तयः । तथा ह्यार्यवसुमित्रस्य- यत् पञ्चालपराक्रमात् परिभववच्छलाद् व्याहृतः सम्मोहादपवाहितोऽस्मि यदहं यद्वा पुरं प्रापितः । सज्जानां घनसम्पदामिह भुवि प्रायः पयो मेदुरा- ण्यूधांसि द्रुतमेव दोग्धुमखिलं सोऽयं किल प्रक्रमः ॥ २ ॥ १८९ अथ कञ्चुकिप्रतिपादितप्रकारेण प्रासादगतो नायकः निजसचिवस्य मति- वैभवेन विस्मितः सामान्येन सचिवचित्तानां गौरवं प्रतिपादयति अहो निसर्गे- त्यादिना । निसर्गनिष्णातमतिभिरपि स्वतः संस्कारं विनापि दुर्विज्ञेयज्ञानकुशलधी- भिरपि, किं पुनः स्थूलधीभिः । सचिवानां मनोवृत्तयः सन्ध्यादिषु सामादिषु सा- ध्यान्तरेषु च चेतःप्रसरणप्रकाराः । अतिदुरवबोधाः, अनुष्ठानेनैव ज्ञातुं शक्याः । तथाहीति विशेषे सङ्क्रमय्य व्याप्तिकथनाय । आर्यवसुमित्रस्य, न केवलं वसुमि- त्रस्येति वक्तुं युक्तम् । आर्यवसुमित्रस्य सोऽयं प्रक्रमः इह भुवि सज्जानां धन- सम्पदाम् ऊधांसि दोग्धुम् अखिलं पयः किलेत्यन्वयः । सज्जानां वर्षोद्यतानाम् अस्मदागमनं प्रतीक्ष्य स्थितानामिव । धनसम्पदामिति गोत्वारोपशेषतया सम्पत्पदेन स्त्रीत्वनिर्देशः इह भुवि अस्मद्राज्ये । प्रायः इदमेव साध्यं बाहुल्येन, नान्तरी- यकतया साध्यान्तरमप्यस्तु । मेदुराणि पयोगर्भतया स्थूलानि । ऊधांसि उदर- भागान् तान्येवोधांसि स्तनाधारान् । द्रुतमेव जनपदोपप्लवस्यासयतया । दोग्धुं स्रावयितुं क्षारयितुं च । ऊवसामुपयोगनिमित्तत्वमिति तत्र क्रियासम्बन्धः ‘गां दोग्धि पय’ इतिवत् । अखिलं निश्शेषम् । पय एव पयः क्षीरम् । अवृष्टिपीडाति- शयेन अखिलमित्युक्तम् । सोऽयं प्रक्रमः प्रवृत्तिप्रकारः । किलेति पश्चात् स्ववचनादन्यमुखाच्च ज्ञातं, पूर्व लेशतोऽपि नाभिप्रायो विदितः ! प्रक्रमप्रकार- माह - पञ्चालपराक्रमात् परिभवो व्याहृतः । असमानां वैरिणां पराक्रमकथनम् अमर्षोत्थापनाय । तत्रापि दैवच्छलाद् विश्वासाय स्वयमप्रकाशेन वाङ्मात्रप्रकाश- www. १. सखे ! इति मूलकोशेषु पाठ:. २. 'वगाहाः स' इति ख. पाठः ३. 'य' इति ख. पाठ:. ४, 'लः' इति ग घ. पाठ:.