पृष्ठम्:तपतीसंवरणम्.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

METMINUTNI ऊरू सन्नमयन् मुहुर्विचलयन् वक्षो वलीकञ्चुकं सोऽयं नर्त्तकवत् प्रनर्त्तयति मां वार्धक्यविस्फूर्जथुः ॥ १ ॥ आदिष्टश्चाहं देवेन यथा “विनयत्रात! तूर्णं गत्वा प्रा- वृषेण्याहरतिवाहनक्षमः कार्त्तिकेयावासपरिसरोद्यानगतः सज्जीक्रियतां गङ्गालोकप्रासाद” इति । अनुष्ठितश्च मया नियोगः । महाराजोऽपि तमारूढवान् । अतो नियोगा- न्तरमनुतिष्ठामि (निष्क्रान्तः ) विष्कम्भकः । कारयति। तत्र प्रयोजकप्रवृत्त्या स्फुटयति -- कुर्वन्नित्यादि । नैकविधाम् अशक्त्या वैवश्येन पदविन्यासेन क्वचिद् द्रुतां क्वचिद् विलम्बितां क्वचिदुत्क्रान्तमार्गी बहु- विधां गतिं कुर्वन् । नर्तकोऽपि रसपात्रादिविशेषानुगुण्येन नैकविधां गतिं कार- यति । तथा उद्भ्रान्ततारे दृशौ प्रकटयन् शक्तिदौस्थ्येन श्वासोच्छ्वासनैरन्तर्येण नयनतारकाभ्रमणम् । अन्योऽपि तत्तद्दृष्टिविशेषानुगुण्येन तारकाणामावर्तनं शि- क्षयति । तथा चिन्ताग्लानिविषादविभ्रममुखान् भावान् समुद्भावयन् अन्तःपुरका- र्यादिषु चिन्ता । अशक्त्या ग्लानिः । प्रारब्धस्यासामर्थ्येन विषादः । विभ्रमः व्याक्षेप- कालादिविपर्ययप्रतीतिः । मुखशब्देन निर्वेदादयो विवक्षिताः । अन्योऽपि शृङ्गाः रादिरसानुगुण्येन तत्र तत्र त्रयस्त्रिंशद्व्यभिचारिणः प्रयोजयति । तथा ऊरू सन्नम- यन् पदविन्यासाशक्त्या वक्रीकुर्वन् । अन्योऽपि मण्डलादिस्थित्यपेक्षया ऊरू सन्न- मयति । वक्षो मुहुर्विचलयन् कासश्वासनैरन्तर्येण । नर्तकोऽपि प्रयोगानुगुण्येन वक्षोविचलनं करोति । वलीकञ्चुकं वल्यः सिरा एव कञ्चुको यस्य । एवं वार्द्धकपीडितत्वेन कथनम् ॥ १ ॥ कृतं स्वाम्यादेशं प्रकाशयति —– आदिष्टो- ऽहमिति । विनयत्रात ! इत्यादेशप्रकारः । प्रावृषेण्याहरतिवाहनक्षमः प्रावृषेण्याना- महामतिवाहनयोग्यः वातादिरहितत्वात् । सज्जीक्रियताम् अवस्थानयोग्यः क्रियतां गङ्गालोकप्रासाद इति । अनुष्ठितश्च मया नियोगः । महाराजोऽपि तमारूढवान् इत्येवं राज्ञः प्रासादारोहणं कृत्वा निष्क्रान्तः ॥ w